________________
श्रीसमवायांगे श्रीअभय ० वृत्ति:
॥ ५६ ॥
" जया णं सूरिए" इत्यादि, किल सूर्यस्य चतुरशीत्यधिकं मण्डलशतं भवति, मण्डलं च ज्योतिष्कमार्गोऽभिधीयते, तत्र जम्बूद्वीपस्यान्तः अशीत्यधिके योजनशते पञ्चषष्टिः सूर्यमण्डलानि भवन्ति, तथा लवणसमुद्रे त्रीणि त्रिंशदधिकानि योजनशतान्यवगाह्यैकोनविंशत्यधिकं सूर्यमण्डलशतं भवति, तत्र सर्वबाह्यं - समुद्रान्तर्गतमण्डलानां पर्यन्तिमं, तस्य चायामविष्कम्भो लक्षं षट् शतानि च योजनानां षष्ट्यधिकानि, परिधिस्तु वृत्तक्षेत्रगणितन्यायेन त्रीणि लक्षाणि | अष्टादश सहस्राणि त्रीणि शतानि पञ्चदशोत्तराणि ३१८३१५, एतावत् क्षेत्रमादित्योऽहोरात्रद्वयेन गच्छति, तत्र च षष्टिर्मुहूर्त्ता भवन्तीति पष्ठया भागापहारे यल्लब्धं तन्मुहूर्त्तगम्यक्षेत्र प्रमाणं भवति, तच्च पञ्च सहस्राणि त्रीणि च पञ्चोत्तराणि शतानि पञ्चदश योजनषष्टिभागाः ५३०५।१, एतच्च दिवसार्द्धन गुण्यते, यदा च सर्ववाये मण्डले सूर्य श्वरति तदा दिनप्रमाणं द्वादश मुहूर्त्ताः, तदर्द्ध च षट्, अतः पद्भिर्मुहूर्त्तगुणितं मुहूर्त्तगतिप्रमाणं चक्षुःस्पर्शगतिप्रमाणं भवति, तत्र एकत्रिंशत्सहस्राणि अष्टौ च शतान्ये कत्रिंशदधिकानि त्रिंशच योजनषष्टिभागाः ३१८३१ ६० अभिवर्द्धितमासः - अभिवर्द्धितसंवत्सरस्य चतुश्चत्वारिंशदहोरात्रद्विषष्टिभागाधिकञ्यशीत्यधिकशतत्रयरूपस्य ३८३|१३ द्वादशो भागः, अभिवर्द्धितसंवत्सरश्चासौ यत्राधिकमासको भवति, तत्र त्रयोदशचन्द्रमासात्मकत्वाचन्द्रमासश्च एकोनत्रिंशता दिनानां द्वात्रिंशता च दिनद्विषष्टिभागानां भवतीति, 'साइरेगाई' ति अहोरात्रस्य चतुर्विंशत्युत्तरशतभागानामेकविंशत्युत्तरशतेनाधिकानीति, आदित्यमासो येन कालेनादित्यो राशिं भुङ्क्ते 'किंचिविसेसूणाई' ति
Jain Education International
For Personal & Private Use Only
३१ समवायाध्य.
॥ ५६ ॥
www.jainelibrary.org