SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायांगे श्री अभय० वृतिः ॥ ४८ ॥ चारप्रकल्पः, तत्र क्वचिद् ज्ञानाद्याचारविषये अपराधमापन्नस्य कस्यचित् प्रायश्चित्तं दत्तं पुनरन्यमपराधविशेषमापन्नस्ततस्तत्रैव प्राक्तने प्रायश्चित्ते मासवहनयोग्यं मासिकं प्रायश्चित्तमारोपितमित्येवं मासिक्यारोपणा भवति, तथा पञ्चरात्रिकशुद्धियोग्यं मासिकशुद्धियोग्यं चापराधद्वयमापन्नस्ततः पूर्वदत्ते प्रायश्चित्ते सपञ्चरात्रिमासिकप्रायश्चित्तारोपणात्सपञ्चरात्रमासिक्यारोपणा भवति, एवं मासिक्यारोपणाः षट् ६ एवं द्विमासिक्यः ६ त्रिमासिक्यः ६ चतुर्मासिक्योऽपि ६ चतुर्विंशतिरारोपणाः, तथा सार्द्धदिनद्वयस्य पक्षस्य चोपघातनेन लघूनां मासादीनां प्राचीनप्रायश्चित्ते आरोपणा उपघातिकारोपणा, यदाह - "अद्वेण छिन्नसेसं पुवद्वेणं तु संजुयं काउं । देज्जा य लहुयदाणं गुरुदाणं तत्तियं चैव ॥ १ ॥” त्ति, यथा-मासार्द्ध १५ पञ्चविंशतिकार्द्ध च सार्द्धद्वादश सर्वमीलने सार्द्धसप्तविंशतिरिति लघुमासः, तथा मासद्वयार्द्ध मासो मासिकस्यार्द्ध पक्ष उभयमीलने साद्ध मास इति लघुद्विमासिकं २५ तथा तेषामेव सार्द्धदिनद्रयाद्यनुद्घातनेन गुरूणामारोपणा अनुद्घातिकारोपणा २६, तथा यावतोऽपराधानापन्नस्तावतीनां तच्छुद्धीनामारोपणा कृत्स्त्रारोपणा २७ तथा बहूनपराधानापन्नस्य षण्मासान्तं तप इतिकृत्वा षण्मासाधिकं तपः कर्म तेष्वेवान्तर्भाव्य शेषमारोप्यते यत्र सा अकृत्स्त्रारोपणेत्यष्टाविंशतिः २८, एतच्च सम्यग् निशीथविंशतितमो| देशकादवगम्यम्, अत्रैव निगमनमाह - एतावांस्तावदाचारप्रकल्पः, इह स्थानके आरोपणामाश्रित्य विवक्षितोऽन्यथा तद्व्यतिरेकेणापि तस्योद्घातिकानुद्घातिकरूपस्य भावात्, अथवैतावानेवायं तावदाचार प्रकल्पः, शेषस्यात्रैवान्तर्भा Jain Education International For Personal & Private Use Only २८ समवाया. ॥ ४८ ॥ www.jainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy