________________
माणमेवार्थ केचिन्मन्यन्ते, अन्ये त्वाहुः-कपोतकः-पक्षिविशेषस्तद्वद् ये फले वर्णसाधर्म्यात्ते कपोते-कूष्माण्डे इवे कपोते ४ कपोतके ते च ते शरीरे वनस्पतिजीवदेहत्वात् कपोतकशरीरे, अथवा कपोतकशरीरे इव धूसरवर्णसाधादेव कपोतक-8
शरीरे कूष्माण्डफले एव ते उपसंस्कृते-संस्कृते तेहिं नो अहो त्ति बहुपापत्वात् 'पारिआसिए'त्ति परिवासितं ह्यस्तनमित्यर्थः, 'मज्जारकडए'इत्यादेरपि केचित् श्रूयमाणमेवार्थ मन्यन्ते, अन्ये त्वाहुः-मार्जारो-वायुविशेषस्तदुपशमनाय कृतं-संस्कृतं माजोरकृतम् , अपरे त्वाहुः-मार्जारो-विरालिकाभिधानो वनस्पतिविशेषस्तेन कृत-भावितं यत्तत्तथा, किं तत् ? इत्याह'कुर्कुटकमांसकं' बीजपूरक कटाहम् 'आहराहि'त्ति निरवद्यत्वादिति। 'पत्तगं मोएति'त्ति पात्रक-पिठरकाविशेष मुश्चति सिक्कके उपरिकृतं सत्तस्मादवतारयतीत्यर्थः 'जहा विजयस्स'त्ति यथा इहैव-इह शते विजयस्य वसुधाराद्युक्तं एवं तस्या
अपि वाच्यमित्यर्थः, 'बिलमिवे'त्यादि 'बिले इव' रन्ध्र इव 'पन्नगभूतेन' सर्पकल्पेन 'आत्मना' करणभूतेन 'तं' सिंहार नगारोपनीतमाहार शरीरकोष्ठ के प्रक्षिपतीति 'हडे'त्ति 'हृष्टः' निर्व्याधिः 'अरोगे'त्ति निष्पीडः 'तुट्टे हढे जाए'त्ति 'तुष्टः'|
तोषवान् 'हृष्टः' विस्मितः, कस्मादेवम् ? इत्याह-समणे इत्यादि 'हट्टे'त्ति नीरोगो जात इति । 'भारग्गसो यत्ति भारपरिमाणतः, भारश्च-भारकः पुरुषोद्वहनीयो विंशतिपलशतप्रमाणो वेति, "कुंभग्गसो य'त्ति कुम्भो-जघन्य आढकानां षष्ट्या मध्यमस्त्वशीत्या उत्कृष्टः पुनः शतेनेति, 'पउमवासे य रयणवासे य वासे वासिहिति'त्ति वर्षः' वृष्टिर्वषिष्यति, किंविधः? इत्याह-'पद्मवर्षः पद्मवर्षरूपः, एवं रत्नवर्ष इति, 'सेए'त्ति श्वेतः, कथंभूतः ?-'संखदलविमलसन्निगासे'त्ति शङ्खस्य यद्दलं-खण्डं तलं वा तद्रूपं विमलं तत्संनिकाशः-सदृशो यः स तथा, प्राकृतत्वाच्चैवं समासः, 'आउसि
Jain Education International
For Personal & Private Use Only
www.iainelbrary.org