________________
जहा सलेस्सा, अकसायी जहा अलेस्सा, सयोगी जाव काययोगी जहा सलेस्सा, अजोगी जहा अलेस्सा, सागारोवउत्ता य अणागारोवउत्ता य जहा सलेस्सा ( सूत्रं ८२४)॥ __'कइ ण'मित्यादि, 'समोसरण'त्ति समवसरन्ति नानापरिणामा जीवाः कथञ्चित्तुल्यतया येषु मतेषु तानि समवसरणानि, समवसृतयो वाऽन्योन्यभिन्नेषु क्रियावादादिमतेषु कथञ्चित्तुल्यत्वेन क्वचित्केषाञ्चिद्वादिनामवताराः समवसरणानि, 'किरियावाइ'त्ति क्रिया कर्तारं विना न संभवति सा चात्मसमवाायिनीति वदन्ति तच्छीलाश्च येते क्रियावादिनः, | अन्ये त्वाः-क्रियावादिनो ये ब्रुवते क्रिया प्रधानं किं ज्ञानेन?, अन्ये तु व्याख्यान्ति-क्रियां जीवादिपदार्थोऽस्तीत्यादिकां वदितुं शीलं येषां ते क्रियावादिनस्ते चात्मादिपदार्थास्तित्वप्रतिपत्तिलक्षणा अशीत्यधिकशतसङ्ख्याः स्थानान्तरादवसेयाः, ततश्च क्रियावादिसम्बन्धात्समवसरणमपि क्रियावादि, समवसरणसमवसरणवतां चाभेदोपचारात् क्रियावादिन एव समवसरणमिति, एवमन्यत्रापि, 'अकिरियावाइ'त्ति अक्रियां-क्रियाया अभावं न हि कस्यचिदप्यनवस्थितस्य पदार्थस्य क्रिया समस्ति तद्भावे चानवस्थितेरभावादित्येवं ये वदन्ति तेऽक्रियावादिनः, तथा चाहुरेके-"क्षणिकाः |सर्वसंस्कारा, अस्थितानां कुतः क्रिया? । भूतिर्येषां क्रिया सैव, कारकं सैव चोच्यते ॥१॥” इत्यादि, अन्ये त्वाहुः
अक्रियावादिनो ये ब्रुवते किं क्रियया चित्तशुद्धिरेव कार्या ते च बौद्धा इति, अन्ये तु व्याख्यान्ति–अक्रियां-जीवादि-8 |पदार्थो नास्तीत्यादिकां वदितुं शीलं येषां तेऽक्रियावादिनः, ते चात्मादिपदार्थनास्तित्वप्रतिपत्तिलक्षणाश्चतुरशीतिविकल्पाः स्थानान्तरादवसेयाः, 'अन्नाणियवाइ'त्ति कुत्सितं ज्ञानमज्ञानं तद्येषामस्ति तेऽज्ञानिकास्ते च ते वादिनश्चेत्य
dan Education International
For Personal & Private Use Only
www.jainelibrary.org