________________
__ 'अणंतरोववन्नगा 'मित्यादिद्धितीयस्तत्र च 'अणंतरेसु जे परिहरियवा ते जहा बंधिसए तहा इहपित्ति, अनन्तरोपपन्ननारकादिषु यानि सम्यग्मिथ्यात्वमनोयोगवाग्योगादीनि पदानि 'परिहरिय'त्ति असम्भवान्न प्रच्छनी| यानि तानि यथा बन्धिशते तथेहापीति । ननु प्रथमभङ्गके सर्वे तिर्यग्भ्य उत्पन्नाः कथं संभवन्ति, आनतादिदेवानां | तीर्थङ्करादिमनुष्यविशेषाणां च तेभ्य आगतानामनुत्पत्तेः१, एवं द्वितीयादिभङ्गकेष्वपि भावनीयं, सत्यं, किन्तु बाहुल्यमाश्रित्यैते भङ्गा ग्राह्याः, इदं च वृद्धवचनेन दर्शयिष्यामः । 'कम्मसमजणणसयंति कर्मसमर्जनलक्षणार्थप्रतिपादकं शतं कर्मसमर्जनशतम् ॥ अष्टाविंशं शतं वृत्तितः परिसमाप्तमिति ॥२८॥
इति चूर्णिवचनरचनाकुञ्चिकयोद्घाटितं मयाऽप्येतत् । अष्टाविंशतितमशतमन्दिरमनघं महार्घचयम् ॥१॥
CHAGUARSHOSHISHISHIRISHISHES
व्याख्यातं पापकर्मादिवक्तव्यताऽनुगतमष्टाविंशं शतम् , अथ क्रमायातं तथाविधमेवैकोनत्रिंशं व्याख्यायते, तत्र च तथैवैकादशोदेशका भवन्ति, तेषु चाद्योद्देशकस्येदमादिसूत्रम्-.
जीवा णं भंते! पावं कम्मं किं समायं पट्टविंसु समायं निविंसु१? समायं पट्टविंसु विसमायं निहविंसु |२१ विसमायं पट्टविंसु समायं निहविंसु ३१ विसमायं पट्टविंसु विसमायं निट्ठविंसु?, गोयमा ! अत्थेगइया ६ समायं पट्टविंसु समायं निट्ठविंसु जाव अत्थेगइया विसमायं पट्टविंसु विसमायं निट्ठविंसु, से केणटेणं भंते! | एवं वुच्चइ अत्थेगइया समायं पट्टविंसु समायं निर्विसु ? तं चेव, गोयमा! जीवा चउविहा पन्नत्ता, तंजहा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org