________________
|सू ८१७
व्याख्या-1 विशेषोऽवगन्तव्यः, तथाहि-चरमोद्देशकः परम्परोद्देशकवद्वाच्य इत्युक्तं, परम्परोद्देशकश्च प्रथमोद्देशकवत् , तत्र च मनुष्यपदे २६ शतके
प्रज्ञप्तिः आयुष्कापेक्षया सामान्यतश्चत्वारो भङ्गा उक्ताः, तेषु च चरममनुष्यस्यायुष्ककर्मबन्धमाश्रित्य चतुर्थ एव घटते, यतो यश्च-8 उद्दे. ४-११ अभयदेवी- रमोऽसावायुर्बद्धवान् न बध्नाति न च भन्त्स्यतीति, अन्यथा चरमत्वमेव न स्यादिति, एवमन्यत्रापि विशेषोऽवगन्तव्य बन्ध्यादि या वृत्तिः
इति, अचरमो यस्तं भवं पुनः प्राप्स्यति, तत्राचरमोद्देशके पञ्चेन्द्रियतिर्यगन्तेषु पदेषु पापं कर्माश्रित्याद्यौ भङ्गको, मनु॥९३७॥
*ष्याणां तु चरमभङ्गकवर्जास्त्रयो, यतश्चतुर्थश्चरमस्येति, एतदेव दर्शयति-'अचरिमे णं भंते ! मणूसे इत्यादि, 'वीससुपएसुत्ति, तानि चैतानि-जीव १ सलेश्य २ शुक्ललेश्य ३ शुक्लपाक्षिक ४ सम्यग्दृष्टि ५ ज्ञानि ६ मतिज्ञानादिचतुष्टय१० नोसज्ञोपयुक्त ११ वेद १२ सकषाय १३ लोभकषाय १४ सयोगि १५ मनोयोग्यादित्रय १८ साकारोपयुक्ता १९. |नाकारोपयुक्त २० लक्षणानि, एतेषु च सामान्येन भङ्गकचतुष्कसम्भवेऽप्यचरमत्वान्मनुष्यपदे चतुर्थो नास्ति, चरमस्यैव
बनाएका तद्भावादिति । 'अलेस्से'इत्यादि, अलेश्यादयस्त्रयश्चरमा एव भवन्तीतिकृत्वेह न प्रष्टव्याः । ज्ञानावरणीयदण्डकोsप्येवं, नवरं विशेषोऽयं-पापकर्मदण्डके सकषायलोभकषायादिष्वाद्यास्त्रयो भङ्गका उक्ता इह त्वाद्यौ द्वावेव, यत एते ज्ञानावरणीयमबझा पुनर्बन्धका न भवन्ति, कषायिणां सदैव ज्ञानावरणबन्धकत्वात्, चतुर्थस्त्वचरमत्वादेव न भव- ॥९३७॥ तीति, 'वेयणिज्जे सवत्थ पढमबीय'त्ति, तृतीयचतुर्थयोरसम्भवात, एतयोहि प्रथमः प्रागुक्तयुक्तेने संभवति द्वितीयस्त्वयोगित्व एव भवतीति ॥ आयुर्दण्डके-'अचरिमे णं भंते ! नेरइए'इत्यादि, 'पढमततिया भंग'त्ति, तत्र प्रथमः प्रतीत एव द्वितीयस्त्वचरमत्वान्नास्ति, अचरमस्य हि आयुर्वन्धोऽवश्यं भविष्यत्यन्यथाऽचरमत्वमेव न स्यात्,
Jain Education International
www.jainelibrary.org
For Personal & Private Use Only