________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः२/ ॥९०२॥
२५ शतके उद्देशः६ पुलाकादेतेश्यापरिणामाः सू ७६९-७७०
गोयमा! जहन्नेणं एक समयं उक्कोसेणं अंतोमुहत्तं । सिणाए णं भंते ! केवइयं कालं वड्डमाणपरिणामे होजा?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं, केवइयं कालं अवट्ठियपरिणामे होजा ?, गोयमा ! |जह• अंतोमु० उक्कोसे० देसूणा पुषकोडी २०॥ (सूत्रं ७७०)
'तिसु विसुद्धलेसासु'त्ति भावलेश्यापेक्षया प्रशस्तासु तिसृषु पुलाकादयस्त्रयो भवन्ति, कषायकुशीलस्तु षट्स्वपि, | सकषायमेव आश्रित्य 'पुबपडिवन्नओ पुण अन्नयरीए उ लेसाए' [पूर्वप्रतिपन्नः पुनरन्यतरस्यां लेश्यायां] इत्येतदुक्तमिति संभाव्यते, 'एकाए परमसुक्काए'त्ति शुक्लध्यानतृतीयभेदावसरे या लेश्या सा परमशुक्लाऽन्यदा तु शुक्लैव, साऽपीतरजीवशुक्ललेश्यापेक्षया स्नातकस्य परमशुक्लेति ॥ परिणामद्वारे-वड्डमाणपरिणामे इत्यादि, तत्र च वर्द्धमानः-शुद्धरुत्कर्ष गच्छन् हीयमानस्त्वपकर्ष गच्छन् अवस्थितस्तु स्थिर इति, तत्र निर्ग्रन्थो हीयमानपरिणामो न भवति, तस्य परिणामहानौ कषायकुशीलव्यपदेशात् , स्नातकस्तु हानिकारणाभावान हीयमानपरिणामः स्यादिति ॥ परिणामाधिकारादेवेदमाह'पुलाए ण'मित्यादि, तत्र पुलाको वर्द्धमानपरिणामकाले कषायविशेषेण बाधिते तस्मिंस्तस्यैकादिकं समयमनुभवतीत्यत उच्यते जघन्येनैक समयमिति 'उक्कोसेणं अंतोमुहत्तंति एतत्स्वभावत्वावर्द्धमानपरिणामस्येति । एवं बकुशप्रतिसेवाकुशीलकपायकुशीलेष्वपि, नवरं बकुशादीनां जघन्यत एकसमयता मरणादपीष्टा, न पुन: पुलाकस्य, पुलाकत्वे मरणाभा| वात्, स हि मरणकाले कषायकुशीलत्वादिना परिणमति,यच्च प्राक् पुलाकस्य कालगमनं तद्भूतभावापेक्षयेति, निग्रेन्थो | जघन्येनोत्कर्षेण चान्तर्मुहूर्त वर्द्धमानपरिणामः स्यातू , केवलज्ञानोत्पत्तौ परिणामान्तरभावात् , अवस्थितपरिणामः पुन
मात्, स्नातकस्नु हानिकस्तु स्थिर इति, तत्र निर्माणपरिणामे इत्यादि, सदा तु शुक्लैव, साडयातर
॥९०२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org