SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ काया असञ्जयेयं भागं चलनोत्कृष्टकालरूपं परिभ्रम्य पुनर्निश्चल एव भवतीति स्वस्थानान्तरमुक्तं, परस्थानान्तरं तु निश्चल सन् ततः स्वस्थानाचलितो जघन्यतो द्विप्रदेशादौ स्कन्धे एक समयं स्थित्वा पुनर्निश्चल एव तिष्ठति, उत्कर्षतरत्वसङ्ख्येयं कालं तेन सह स्थित्वा पृथग् भूत्वा पुनस्तिष्ठति । 'दुपएसियस्से'त्यादि, 'उक्कोसेणं अणंतं कालं'ति, कथम् !, द्विप्रदेशिकः संश्चलितस्ततोऽनन्तैः पुद्गलैः सह कालभेदेन सम्बन्धं कुर्वन्ननन्तेन कालेन पुनस्तेनैव परमाणुना सह सम्बन्धं प्रतिपद्य पुनश्चलतीत्येवमिति ॥ सैजादीनामेवाल्पबहुत्वमाह-एएसि 'मित्यादि, 'निरेया असंखेजगुण'त्ति स्थिति४ क्रियाया औत्सर्गिकत्वादहुत्वमिति, अनन्तप्रदेशिकेषु सैजा अनन्तगुणाः वस्तुस्वभावात् ॥ एतदेव द्रव्यार्थप्रदेशार्थोभया-3 निरूपयन्नाह-एएसिण'मित्यादि, तत्र द्रव्यार्थतायां सैजत्वनिरेजत्वाभ्यामष्टौ पदानि, एवं प्रदेशार्थतायामपि, उभ| यार्थतायां तु चतुर्दश सैजपक्षे निरेजपक्षे च परमाणुषु द्रव्यार्थप्रदेशार्थपदयोव्यार्थाप्रदेशार्थतेत्येवमेकीकरणेनाभिलापात्, अथ 'पएसट्टयाए एवं चेव' इत्यत्रातिदेशे यो विशेषीऽसावुच्यते-'नवरं परमाणु' इत्यादि, परमाणुपदे प्रदेशार्थतायाः है स्थानेऽप्रदेशार्थतयेति वाच्यं, अप्रदेशार्थत्वात्परमाणूनां, तथा द्रव्यार्थतासूत्रे सङ्ख्यातप्रदेशिका निरेजा निरेजपरमाणुभ्यः सङ्ख्यातगुणा उक्ताः प्रदेशार्थतासूत्रे तु ते तेभ्योऽसङ्ख्येयगुणा वाच्याः, यतो निरेजपरमाणुभ्यो द्रव्यार्थतया निरेजसङ्ख्यातप्रदेशिकाः सङ्ख्यातगुणा भवन्ति, तेषु च मध्ये बहूनामुत्कृष्टसङ्ख्यातकप्रमाणप्रदेशत्वान्निरेजपरमाणुभ्यस्ते प्रदेशतोऽसङ्ख्येयगुणा भवन्ति उत्कृष्ट सङ्ख्यातकस्योपर्येकप्रदेशप्रक्षेपेऽप्यसङ्ख्यातकस्य भावादिति ॥ अथ परमाण्वादीनेव सैजत्वादिना निरूपयन्नाह-'परमाणु' इत्यादि, इह सर्वेषामल्पबहुत्वाधिकारे द्रव्यार्थचिन्तायां परमाणुपदस्य सर्वैजत्वनिरेजत्वविशेषणात् Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy