SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ | तेण दबा विसेसहिया || २ ||” [ भेदा यत्सर्वेऽपि समयाः प्रत्येकं द्रव्याणीतः समयेभ्यो द्रव्याणि विशेषाधिकानि भवन्ति ॥ १ ॥ | शेषाणि जीवपुद्गलधर्माधर्माकाशानि प्रक्षिप्तानि द्रव्यार्थतया समयेषु तेन द्रव्याणि विशेषाधिकानि ॥२॥ ] नन्वद्धासमयानां कस्माद्रव्यत्वमेवेष्यते ? समयस्कन्धापेक्षया प्रदेशार्थत्वस्यापि तेषां युज्यमानत्वात्, तथाहि यथा स्कन्धो द्रव्यं सिद्धं स्कन्धावयवा अपि यथा प्रदेशाः सिद्धाः एवं समयस्कन्धवर्त्तिनः समया भवन्ति प्रदेशाश्च द्रव्यं चेति, अत्रोच्यते, परमाणू| नामन्योऽन्यसव्यपेक्षत्वेन स्कन्धत्वं युक्तं, अद्धासमयानां पुनरन्योऽन्यापेक्षिता नास्ति, यतः कालसमयाः प्रत्येकत्वे च काल्पनिकस्कन्धाभावे च वर्त्तमानाः प्रत्येकवृत्तय एव तत्स्वभावत्वात् तस्मात्तेऽन्योऽन्यनिरपेक्षाः अन्योऽन्यनिरपेक्षत्वाच्च न ते | वास्तवस्कन्धनिष्पादकास्ततश्च नैषां प्रदेशार्थतेति, उक्तञ्चात्र – “आहऽद्धासमयाणं किं पुण दबठ्ठए व नियमेणं । तेसि पए| सट्ठाविहु जुज्जइ खंधं समासज्ज ॥ १ ॥ [ ग्रन्थाग्रम् १७००० ] सिद्धं खंधो दवं तदघयवाविय जहा पएसत्ति । इय तब| त्ती समया होंति पएसा य दक्षं च ॥ २ ॥ भन्नइ परमाणूणं अन्नोन्नमवेक्ख खंधया सिद्धा । अद्धासमयाणं पुण अन्नो| नावेक्खया नत्थि ॥ ३ ॥ अद्धासमया जभ्हा पत्तेयत्ते य खंधभावे य । पत्तेयवत्तिणो च्चिय ते तेणऽन्नोन्ननिरवेक्खा ||४||” [ आहाद्धासमयानां किं पुनर्नियमेन द्रव्यार्थतैव तेषां स्कन्धं समाश्रित्य प्रदेशार्थताऽपि युज्यते ॥ १॥ स्कन्धो द्रव्यं सिद्धं तद वयवा अपि च यथा प्रदेशा इति । एवं तद्वर्त्तिनः समयाः प्रदेशा भवन्ति द्रव्यं च ॥ २ ॥ भण्यते परमाणूनामन्योऽन्या| पेक्षया स्कन्धता सिद्धा । अद्धासमयानां पुनरन्योऽन्यापेक्षता नास्ति ॥ ३ ॥ अद्धासमया यस्मात्प्रत्येकत्वे स्कन्धभावे च । प्रत्येकवर्त्तिनश्चैव ते तेनान्योऽन्यनिरपेक्षाः ॥ ४ ॥ ] अथ द्रव्येभ्यः प्रदेशा अनन्तगुणा इत्येतत्कथम् ?, उच्यते, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy