________________
SUSNESAMASSASSACROSCARSCOCAL
समयो यस्मात्समयक्षेत्रद्रव्यपर्यवगुणो भवति तस्मादनन्ताः समया एकैकस्मिन् समये भवन्तीति, आह च-"होति य अणंतगुणिया अद्धासमया उ पोग्गलेहितो । नणु थोवा ते नरखेत्तमेत्ततवत्तणाओत्ति ॥१॥ भन्नइ समयक्खेत्तंमि सन्ति जे | केइ दवपज्जाया । वट्टइ संपयसमओ तेसिं पत्तेयमेक्केके ॥२॥ एवं संपयसमओ जं समयक्खेत्तपज्जवब्भत्थो । तेणाणंता समया भवंति एकेकसमयमि ॥ ३॥" [ पुद्गलेभ्योऽनन्तगुणा अद्धासमया भवन्ति । ननु ते स्तोकाः स्युनरक्षेत्रमात्रे वर्त्तमानत्वात् ॥१॥ भण्यते समयक्षेत्रे ये केचिद् द्रव्यपर्यायाः सन्ति तेषां प्रत्येकमेकैकस्मिन् साम्प्रतसमयो वर्तते ॥२॥ एवं साम्प्रतसमयो यत्समयक्षेत्रपर्यवाभ्यस्तस्तेनानन्ताः समया एकैकस्मिन् समये भवन्ति ॥३॥] एवं च वर्तमानोऽपि समयः पुद्गलेभ्योऽनन्तगुणो भवति, एकद्रव्यस्यापि पर्यवाणामनन्तानन्तत्वात् , किञ्च-न केवलमित्थं पुद्गलेभ्योऽनन्तगुणा: समयाः सर्वलोकद्रव्यप्रदेशपर्यायेभ्योऽप्यनन्तगुणास्ते संभवन्ति, तथाहि-यत् समस्तलोकद्रव्यप्रदेशपर्यवराशेः समयक्षेत्रद्रव्यप्रदेशपर्यवराशिना भक्ताल्लभ्यते तावत्सु समयेषु तात्त्विकेषु गतेषु लोकद्रव्यप्रदेशपर्यवसङ्ख्यासमाना औपचारिकसमयसङ्ख्या लभ्यते, एतद्भावना चैवं-किलासद्भावकल्पनया लक्षं लोकद्रव्यप्रदेशपर्यवाणां तस्य समयक्षेत्रद्रव्यप्रदेशपर्यवरा
शिना कल्पनया सहस्रमानेन भागे हृते शतं लब्धं, ततश्च किल तात्त्विकसमयशते गते लोकद्रव्यप्रदेशपर्यवसङ्ख्यातुल्या ६ समयक्षेत्रद्रव्यप्रदेशपर्यवरूपसमयसझ्या लभ्यते, समयक्षेत्रापेक्षयाऽसङ्ख्यातगुणलोकस्य कल्पनया शतगुणत्वात् , तथाऽन्ये
प्वपि तावत्सु तात्त्विकसमयेषु गतेषु तावन्त एवौपचारिकसमया भवन्तीति, एवमसङ्ख्यातेषु कल्पनया शतमानेषु तात्त्विकसमयेषु पौनःपुन्येन गतेष्वनन्ततमायां कल्पनया सहस्रतमायां वेलायां गता भवन्ति तात्त्विकसमयालोकद्रव्यप्रदेशपर्यव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org