SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥८६१॥ श्वाद् विचित्रत्वाद्वा सूत्रगतेरिति, 'घणवट्टे'त्ति सर्वतः समं घनवृत्तं मोदकवत् 'पयरवट्टे'त्ति बाहल्यतो हीनं तदेव प्रतरवृत्तं मण्डकवत्, 'ओयप एसिए' ति विषमसङ्ख्य प्रदेश निष्पन्नं 'जुम्मपएसिए'त्ति समसयप्रदेश निष्पन्नं, 'तत्थ पांजे से ओयएसिए पयरवट्टे से जहन्नेणं पंचपएसिए' इत्यादि, इत्थं पञ्चप्रदेशावगाढं पश्चाणुकात्मकमित्यर्थः, उत्कर्षेणानन्तप्रदेशिकमसङ्ख्येयप्रदेशावगाढं लोकस्याप्यसङ्ख्येयप्रदेशात्मकत्वात्, 'जे से जुम्मपएसिए से जहन्नेणं बारसपएसिए' इति, एतस्य स्थापना- 8888 'जे से ओयपएसिए घणवट्टे से जहनेणं सत्तपएसिए सत्तपएसोगाढे प्ति, एतस्य स्थापना - अस्य मध्यपरमाणोरुपर्येकः स्थापितोऽधश्चैक इत्येवं सप्तप्रदेशिकं घनवृत्तं भवतीति, 'जे से जुम्मपएसिए से जहन्नेणं बत्तीसइएसिए' इत्यादि, एतस्य स्थापना - अस्य चोपरीदृश एव प्रतरः स्थाप्यस्ततः सर्वे चतुर्विंशतिस्ततः प्रतरद्वयस्य मध्याणूनां चतुर्णामुपर्यन्ये चत्वारोऽधश्चेत्येवं द्वात्रिंशदिति ॥ त्र्यस्रसूत्रे - 'जे से ओयपएसिए से जहनेणं तिपएसिए'त्ति, अस्य स्थापना - 'जे से जुम्मपएसिए से जहनेणं छप्पएसिए'त्ति अस्य स्थापना- 'जे से ओयपएसिए से जहन्नेणं पणतीसपएसिए'त्ति, अस्य स्थापना - 88880 ॐ अस्य पञ्चदशप्रदेशिकस्य प्रतरस्योपरि दशप्र-देशिकः एतस्याप्युपरि षट्प्रदेशिकः एतस्याप्युपरि त्रिप्रदेशिकः प्रतरः एतस्याप्युपर्येकः प्रदेशो दीयते इत्येवं पञ्चत्रिंशत्प्रदेशा इति । 'जे से जुम्मपएसिए से जहन्नेणं चउप्पएसिए' इति, अस्य स्थापना - अत्रैकस्योपरि प्रदेशो दीयत इत्येवं चत्वार इति ॥ चतुरस्रसूत्रे - 'जे से ओयपएसिए से जहनेणं नवपएसिए'त्ति एवं 'जे से जुम्मपएसिए से जहनेणं चउप्पएसिए'त्ति, एवं 'जे से ओयपएसिए से जहन्नेणं सत्तावीसपएसिए' त्ति, एवमेतस्य नवप्रदेशिक - Jain Education International For Personal & Private Use Only | २५ शतके उद्देशः ३ वृत्तादीनां दशावगा हौ सू ७२६ ॥८६१॥ www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy