________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥८५४ ॥
'दो भंते' इत्यादि, प्रथमः समय उपपन्नयोर्ययोस्तौ प्रथमसमयोपपन्नौ, उपपत्तिश्चेह नरकक्षेत्रप्राप्तिः सा च द्वयोरपि | विग्रहेण ऋजुगत्या वा एकस्य वा विग्रहेणान्यस्य ऋजुगत्येति, 'समजोगिन्ति समो योगो विद्यते ययोस्तौ समयोगिनी एवं विषमयोगिनी, 'आहारयाओ वा' इत्यादि, आहारकाद्वा-आहारकं नारकमाश्रित्य 'से' ति स नारकोऽनाहारकः अनाहारकाद्वा-अनाहारकं नारकमाश्रित्याहारकः, किम् ? इत्याह- 'सिय हीणे'त्ति यो नारको विग्रहाभावेनागत्याहारक | एवोत्पन्नोऽसौ निरन्तराहारकत्वादुपचित एव, तदपेक्षया च यो विग्रहगत्याऽनाहारको भूत्वोत्पन्नोऽसौ हीनः पूर्वमनाहारक| त्वेनानुपचितत्वाद्धीनयोगत्वेन च विषमयोगी स्यादिति भावः, 'सिय तुल्लेत्ति यौ समानसमयया विग्रहगत्याऽनाहारकौ भूत्वोत्पन्नौ ऋजुगत्या वाऽऽगत्योत्पन्नौ तयोरेक इतरापेक्षया तुल्यः समयोगी भवतीति भावः, 'अन्भहिए'त्ति यो विग्रहाभावेनाहारक एवागतोऽसौ विग्रहगत्यना हार का पेक्षयोपचिततरत्वेनाभ्यधिको विषमयोगीति भावः, इह च 'आहारयाओ वा से अणाहारए' इत्यनेन हीनतायाः 'अणाहारयाओ वा आहारए' इत्यनेन चाभ्यधिकताया निबन्धनमुक्तं, तुल्यतानिबन्धनं तु समानधर्मतालक्षणं प्रसिद्धत्वान्नोक्तमिति ॥ योगाधिकारांदेवेदमपरमाह
कविणं भंते! जोए प० १, गोयमा ! पन्नरसविहे जोए पं० तं० - सचमणजोए मोसमणजोए सच्चामोसमणजोए असच्चामोसमणजोए सच्चवइजोए मोसवइजोए सचामोसवइजोए असच्चामोसवइजोए ओरालि - | यसरीरकायजोए ओरालियमीसासरीरकायजोए वेडधियसरीरकायजोए वेडवियमीसासरीरकायजोगे आहारगसरीरकायजोगे आहारगमीसास० का० कम्मास०का० १५ ॥ एयस्स णं भंते ! पन्नरसविहस्स जहन्नुको
Jain Education International
For Personal & Private Use Only
२५ शतके उद्देशः १ समविषम
योगिता पश्ञ्चदशयोग
जघन्यादि
सू७१८.
७१९
॥ ८५४॥
www.jainelibrary.org