SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ | गामिनां जघन्यस्थितिकानां तिस्रस्ता उक्ताः एषु पुनस्ताश्चतस्रः असुरेषु तेजोलेश्यावानप्युत्पद्यत इति, तथा रलप्रभा पृथिवीगामिनां जघन्यस्थितिकानामध्यवसाय स्थानान्यप्रशस्तान्येवोक्तानि इह तु प्रशस्तान्येव, दीर्घस्थितिकत्वे हि द्विविधान्यपि संभवन्ति न त्वितरेषु कालस्याल्पत्वात्, 'संवेहो सातिरेगेण सागरोवमेण कायबो'त्ति रत्नप्रभागमेषु सागरोपमेण संवेध उक्तः असुरकुमारगमेषु तु सातिरेकसागरोपमेणासौ कार्यो वलिपक्षापेक्षया तस्यैव भावादिति ॥ अथ मनुष्येभ्योऽसुरानुत्पादयनाह - 'जइ मणुस्सेहितो' इत्यादि, 'उक्कोसेणं तिपलिओ मट्ठिएसुत्ति देवकुर्वादिनरा हि उत्कर्षतः स्वायुः समान| स्यैव देवायुषो बन्धकाः अतः 'तिपलिओवमट्टिइएस' इत्युक्तं, 'नवरं सरीरोगाहणे त्यादि तत्र प्रथम औधिक औधिकेषु द्वितीयस्त्वौधिको जघन्यस्थितिष्विति, तत्रौधिकोऽसङ्ख्यातवर्षायुर्नरो जघन्यतः सातिरेकपञ्चधनुः शतप्रमाणो भवति यथा | सप्तमकुलकरप्राक्कालभावी मिथुनकनरः उत्कृष्टतस्तु त्रिगन्यूतमानो यथा देवकुर्वादिमिथुनकनरः, स च प्रथमगमे द्वितीये च द्विविधोऽपि संभवति, तृतीये तु त्रिगव्यूतावगाहन एव यस्मादसावेवोत्कृष्टस्थितिषु-पल्योपमत्रयायुष्केषूत्पद्यते उत्कर्षतः | स्वायुः समानायुबन्धकत्वात्तस्येति ॥ अथ सङ्ख्यातवर्षायुः सञ्ज्ञिमनुष्यमाश्रित्याह- 'जइ संखेज्जेत्यादि, एतच्च समस्तमपि पूर्वोक्तानुसारेणावगन्तव्यमिति ॥ चतुर्विंशतितमशते द्वितीयः ॥ २४-२ ॥ तृतीयस्तु - रायग जाव एवं वयासी - नागकुमारा णं भंते ! कओहिंतो उववज्जंति किं नेरइएहिंतो उववजंति तिरि० Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy