SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ व्याख्या- प्रज्ञप्तिः अभयदेवीया वृत्तिः२ २४ शतके उद्देशः२ असुराणामुत्पादः सू ६९८ ॥८२०॥ नधिकृत्योक्तं, 'नो नपुंसगवेयग'त्ति असङ्ख्यातवर्षायुषो हि नपुंसकवेदान संभवन्त्येवेति, 'उक्कोसेणं छप्पलिओवमाईति त्रीण्यसङ्ख्यातवर्षायुस्तिर्यग्भवसम्बन्धीनि त्रीणि चासुरभवसम्बन्धीनीत्येवं षट्, न च देवभवादुद्वृत्तः पुनरप्यसङ्ख्यातवर्षायुष्केपूत्पद्यत इति 'सो चेव अप्पणा जहन्नकालहितीओ'इत्यादिश्चतुर्थो गमः, इह च जघन्यकालस्थितिकः सातिरेकपूर्वकोव्यायुः स च पक्षिप्रभृतिकः प्रक्रान्तः 'उक्कोसेणं सातिरेगपुवकोडिआउए सो'त्ति असङ्ख्यातवर्षायुषां पक्ष्यादीनां सातिरेक पूर्वकोटिरायुः ते च स्वायुस्तुल्यं देवायुः कुर्वन्तीतिकृत्वा सातिरेकेत्याधुक्तमिति, 'उकोसेणं सातिरेगं धणुसहस्सं'ति यदुक्तं तत् सप्तमकुलकरपाकालभाविनो हस्त्यादीनपेक्ष्येति संभाव्यते, तथाहि-इहासङ्ख्यातवर्षायुर्जघन्यस्थितिकः प्रक्रान्तः | स च सातिरेकपूर्वकोट्यायुर्भवति तथैवागमे व्यवहृतत्वात् , एवंविधश्च हस्त्यादिः सप्तमकुलकरपाकाले लभ्यते, तथा सप्तमकुलकरस्य पञ्चविंशत्यधिकानि पञ्च धनुःशतानि उच्चैस्त्वं तत्प्राक्कालभाविनां च तानि समधिकतराणीति तत्कालीनहस्त्यादयश्चैतद्विगुणोच्छ्रायाः अतः सप्तमकुलकरप्राक्कालभाविनामसङ्ख्यातवर्षायुषां हस्त्यादीनां यथोक्तमवगाहनाप्रमाणं लभ्यत इति, 'सातिरेगाओ दो पुचकोडीओ' इति एका सातिरेका तिर्यग्भवसत्काऽन्या तु सातिरेकैवासुरभवसत्केति ४ । 'असु| रकुमारहिइं संवेहं च जाणिज'त्ति तत्र जघन्याऽसुरकुमारस्थितिर्दशवर्षसहस्राणि संवेधस्तु सातिरेका पूर्वकोटी दशवर्षसहस्राणि चेति ५, शेषगमास्तु स्वयमेवाभ्यूह्याः ९॥ एवमुत्पादितोऽसङ्ख्यातवर्षायुःसज्ञिपञ्चेन्द्रियतिर्यगसुरे, अथ सङ्ख्यातवर्षायुरसावुत्पाद्यते-'जइ संखेज्जेत्यादि, 'उक्कोसेणं सातिरेगसागरोवमहितीएसुत्ति यदुक्तं तद्वलिनिकाय-2 माश्रित्येति 'तिसुवि गमएसुत्ति जघन्यकालस्थितिकसम्बन्धिषु औधिकादिषु 'चत्तारि लेसाओ'त्ति रत्नप्रभापृथिवी ॥४२०॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy