SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ ४ मूलकन्दादिविषयभेदात् पूर्ववत् । एगट्टिय'त्ति एकमस्थिकं फलमध्ये येषां ते तथा, ते च निम्बाम्रजम्बूकौशाम्बादयस्ते द्वितीये वाच्याः। 'बहुबीयगा यत्ति बहूनि बीजानि फलानि येषां ते तथा, ते चाथिकतेन्दुकबदरकपित्थादयो वृक्षविशेपास्ते तृतीये वाच्याः। 'गुच्छा यत्ति गुच्छा-वृन्ताकीप्रभृतयस्ते चतुर्थे वाच्याः 'गुम्म'त्ति गुल्माः सिरियकनवमालिकाकोरण्टकादयस्ते पञ्चमे वाच्याः 'वल्ली यत्ति वल्यः पुंफलीकालिङ्गीतुम्बीप्रभृतयस्ताः षष्ठे वर्गे वाच्या इत्येवं षष्ठवर्गो वल्लीत्यभिधीयते 'छद्दसवग्गा एए'ति षड्दशोद्देशकप्रमाणा वर्गा 'एते' अनन्तरोक्काः अत एव प्रत्येकं दशोदेशकप्रमाणत्वात् वर्गाणामिह षष्टिरुद्देशका भवन्तीति ॥ इदं च शतमनन्तरशतवत्सर्वं व्याख्येयं, यस्तु विशेषः स सूत्रसिद्ध एव, इयं चेह वृद्धोक्ता गाथा-"पत्त पवाले पुप्फे फले य बीए य होइ उववाओ। रुक्खेसु सुरगणाणं पसत्थरसवन्नगंधेसु ॥१॥[सुरगणानामुत्पादः प्रशस्तरसवर्णगन्धवतां वृक्षाणां पत्रे प्रवाले पुष्पे फले बीजे च भवति ॥ १॥] इति ॥ द्वाविंशतितमशतं वृत्तितः परिसमाप्तम् ॥ २२॥ द्वाविंशं तु शतं व्यक्तं, गम्भीरं च कथश्चन । व्यक्तगम्भीरभावाभ्यामिह वृत्तिः करोतु किम् ? ॥१॥ व्याख्यातं द्वाविंशं शतम् , अथावसरायातं त्रयोविशं शतमारभ्यते, अस्य चादावेवोद्देशकवर्गसङ्ग्रहायेयं गाथानमो सुयदेवयाए भगवईए ॥ आलुयलोहो अवया पाढी तह मासवन्निवल्ली य । पंचेते दसवग्गा पन्नासा होति उद्देसा ॥१॥रायगिहे जाव एवं० अह भंते! आलुयमूलगसिंगयेरहलिहरुक्खकंडरियजारुच्छीरबिरालि. dain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy