SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ far एकेको होइ उद्देसो ॥ १ ॥” इति, 'कल' त्ति कलायादिधान्यविषयो द्वितीयः २ 'अयसित्ति अतसीप्रभृतिधान्यविषयस्तृतीयः ३ 'वंसे' त्ति वंशादिपर्वगविशेषविषयश्चतुर्थः ४ 'इक्खु'त्ति इक्ष्वादिपर्वगविशेषविषयः पञ्चमः ५ 'दभे'त्ति दर्भशब्दस्योपलक्षणार्थत्वात् 'सेडियमंडियकोन्तियदन्भे' इत्यादितृणभेदविषयः षष्ठः ६ 'अन्भेत्ति वृक्षे समुत्पन्नो विजातीयो वृक्षविशेषोऽध्यवरोहकस्तत्प्रभृतिशाकप्रायवनस्पतिविषयः सप्तमः ७ 'तुलसी यत्ति तुलसीप्रभृतिवनस्पतिविषयोऽष्टमो वर्गः ८ 'अट्ठेते दसवग्ग'त्ति अष्टावेतेऽनन्तरोक्ता दशानां दशानामुद्देशकानां सम्बन्धिनो वर्गाः समुदाया दशवर्गा अशीतिः पुनरुद्देशका भवन्ति, वर्गे वर्गे उद्देशकदशकभावादिति, तत्र प्रथमवर्गस्तत्रापि च प्रथम उद्देशको व्याख्यायते, तस्य चेदमादिसूत्रम् — 'रायगिहे' इत्यादि, 'जहा वक्कंतीए त्ति यथा प्रज्ञापनायाः षष्ठपदे, तत्र चैवमुत्पादो-नो नारकेभ्य | उत्पद्यन्ते किन्तु तिर्यग्मनुष्येभ्यः, तथा व्युत्क्रान्तिपदे देवानां वनस्पतिषूत्पत्तिरुक्ता इह तु सा न वाच्या मूले देवानामनुत्पत्तेः पुष्पादिष्वेव शुभेषु तेषामुत्पत्तेरत एवोक्तं 'नवरं देववज्जं 'ति । 'एक्को वे 'त्यादि, यद्यपि सामान्येन वनस्पतिषु प्रतिसमयमनन्ता उत्पद्यन्त इत्युच्यते तथाऽपीह शाल्यादीनां प्रत्येकशरीरत्वादेकाद्युत्पत्तिर्न विरुद्धेति । 'अवहारो जहा उप्पलदेसए'त्ति उत्पलोद्देशक एकादशशतस्य प्रथमस्तत्र चापहार एवं - ' ते णं भंते ! जीवा समये २ अवहीरमाणा २ केवति - कालेणं अवहीरंति ?, गोयमा ! ते णं असंखेज्जा समए २ अवहीरमाणा २ असंखेज्जाहिं उस्सप्पिणीहिं अवसप्पिणीहिं अवहीरंति नो चेव णं अवहिया सिय'त्ति 'ते णं भंते ! जीवा णाणावरणिज्जस्स कम्मस्स किं बंधगा अबंधगा ?" इतः परं यदुक्तं 'जहा उप्पलुद्देसए'त्ति अनेनेदं सूचितं- 'गोयमा ! नो अबंधगा बंधए वा बंधगा वे'त्यादि, एवं वेदोदयोदीरणा अपि वाच्याः, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy