SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः२ २० शतके उद्देश:१० कतिसंचितादि सू ६८७ ॥७९९॥ त्ति व्यादिसङ्ख्याव्यवहारतः शीर्षप्रहेलिकायाः परतोऽसङ्ख्यातव्यवहारतश्च सङ्ख्यातत्वेनासङ्ख्यातत्वेन च वक्तुं न शक्यतेऽसाववक्तव्यः स चैककस्तेनावक्तव्येन-एककेन एकत्वोत्पादेन सञ्चिता अवक्तव्यसञ्चिताः, तत्र नारकादयस्त्रिविधा अपि, एकसमयेन तेषामेकादीनामसङ्ख्यातान्तानामुत्पादात्, पृथिवीकायिकादय ५ स्त्वकतिसञ्चिता एव, तेषां समयेनासङ्ख्यातानामेव प्रवेशाद्, वनस्पतयस्तु यद्यप्यनन्ता उत्पद्यन्ते तथाऽपि प्रवेशनकं विजातीयेभ्य आगतानां यस्तत्रोत्पादस्तद्विवक्षितं, असयाता एव विजातीयेभ्य उद्बत्तास्तत्रोत्पद्यन्त इति सूत्रे उक्तम् ‘एवं जाव वणस्सइकाइय'त्ति, सिद्धानो अकतिसञ्चिता अनन्तानामसङ्ख्यातानां वा तेषां समयेनासम्भवादिति ॥ एषामेवाल्पबहुस्वं चिन्तयन्नाह-'एएसी'त्यादि, अवक्तव्यकसञ्चिताः स्तोकाः अवक्तव्यकस्थानस्यैकत्वात् , कतिसञ्चिताः सङ्ख्यातगुणाः, सङ्ख्यातत्वात् सङ्ख्यातस्थानकानाम् , अकतिसञ्चितास्त्वसङ्ख्यातशुणाः असहयातस्थानकानामसङ्ग्यातत्वादित्येके, अन्ये त्वाहुः-वस्तुस्वभावोऽत्र कारणं न तु स्थानकाल्पत्वादि, कथमन्यथा सिद्धाः कतिसश्चिताः स्थानकबहुत्वेऽपि स्तोका अवक्तव्यकस्थानकस्यैकत्वेऽपि सङ्ख्यातगुणा व्यादित्वेन केवलिनामल्पानामायुःसमाप्तेः इयं च लोकस्वभावादेवेति ॥ नारकाद्युत्पादविशेषणभूतसङ्ख्याऽधिकारादिदमाह-'नेरइया 'मित्यादि 'छक्कसमजिय'त्ति षट् परिमाणमस्येति षटुं वृन्दं तेन समर्जिताः-पिण्डिताः षदसमर्जिताः, अयमर्थः-एकत्र समये ये समुत्पद्यन्ते तेषां यो राशिः स षट्प्रमाणो यदि स्यात्तदा ते षटुसमर्जिता उच्यन्ते १ 'नोछक्कसमजिय'त्ति नोषटुंषट्काभावः ते चैकादयः पश्चान्तास्तेन नोषदेन-एकाद्युत्पादेन ये समर्जितास्ते तथा २ तथा 'छक्केण य नोछक्केण य सम|जिय'त्ति एकत्र समये येषां षट्समुत्पन्नमेकाद्यधिकं ते षट्रेन नोषदेन च समर्जिता उक्ताः 'छक्केहि य समज्जिय'त्ति एकत्र ॥७९९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy