SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥७८७॥ 'बाय परिणए ण' मित्यादि, सर्व एव कर्कशो गुरुः शीतः स्निग्धश्च एकदैवाविरुद्धानां स्पर्शानां सम्भवादित्येको भङ्गः, चतुर्थपदव्यत्यये द्वितीयः, एवमेते एकादिपदव्यभिचारेण षोडश भङ्गाः | 'पंचफासे' इत्यादि, कर्कशगुरुशीतैः स्निग्ध| रुक्षयोरेकत्वानेकत्वकृता चतुर्भङ्गी लब्धा, एषैव च कक्कर्शगुरूष्णैर्लभ्यत इत्येवमष्टी, एते चाष्टौ कर्कशगुरूभ्याम्, एवमन्ये च कर्कशलघुभ्याम्, एवमेते षोडश कर्कशपदेन लब्धा एतानेव च मृदुपदं लभते इत्येवं द्वात्रिंशत्, इयं च द्वात्रिंशत् | स्निग्धरुक्षयोरेकत्वादिना लब्धा, अन्या च द्वात्रिंशत् शीतोष्णयोरन्या च गुरुलघ्वोरन्या च कर्कशमृद्वोरित्येवं सर्व एवैते | मीलिता अष्टाविंशत्युत्तरं भङ्गकशतं भवतीति ॥ 'छफासे' इत्यादि, तत्र सर्वकर्कशो १ गुरुश्च २ देशश्च शीतः ३ उष्णः ४ स्निग्धो ५ रूक्षश्चे ६ ति, इह च देशशीतादीनां चतुर्णी पदानामेकत्वादिना षोडश भङ्गाः, एते च सर्वकर्कशगुरुभ्यां लब्धाः, एत एव कर्कशलघुभ्यां लभ्यन्ते तदेवं द्वात्रिंशत्, इयं च सर्वकर्कशपदेन लब्धा इयमेव च सर्वमृदुना लभ्यत इति चतुःषष्टिर्भङ्गाः, इयं च चतुःषष्टिः सर्वकर्कशगुरुलक्षणेन द्विक्संयोगेन सविपर्ययेण लब्धा, तदेवमन्योऽप्येवंविधो द्विक्संयोगस्तां लभते, कर्कशगुरुशीतस्निग्धलक्षणानां च चतुर्णी पदानां षड् द्विकसंयोगास्तदेवं चतुःषष्टिः षड़िर्द्धिकसंयोगैर्गुणितास्त्रीणि शतानि चतुरशीत्यधिकानि भवन्तीति अत एवोक्तं- 'सवेवेते छफासे' इत्यादि ॥ 'जइ सत्तफासे' इत्यादि, इहाद्यं कर्कशाख्यं पदं स्कन्धव्यापकत्वाद्विपक्षरहितं शेषाणि तु गुर्वादीनि षट् स्कन्धदेशांश्रितत्वात् सविपक्षाणीत्येवं सप्त स्पर्शाः, एषां च गुर्वादीनां षण्णां पदानामेकत्वानेकत्वाभ्यां चतुःषष्टिर्भङ्गका भवन्ति, ते च सर्वशब्दविशेषिते - | नादिन्यस्तेन कर्कशपदेन लब्धाः, एवं मृदुपदेनापीत्येवमष्टाविंशत्यधिकं शतं, एवं गुरुलघुभ्यां शेषैः षद्भिः सह १२८, Jain Education International For Personal & Private Use Only २० शतके उद्देशः ५ वादरस्क न्धे वर्णादि परिणामः सू-६६९ ॥७८७॥ www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy