________________
शानां कालत्वादित्वेनैकवर्णत्वे पञ्च विकल्पाः, द्विवर्णतायां चैकः प्रदेशः कालः प्रदेशद्वयं तु तथाविधैकप्रदेशावगाडा कारणमपेक्ष्यैकत्वेन विवक्षितमिति स्यान्नील इत्येको भङ्गः, अथवा स्यात्कालस्तथैव प्रदेशद्वयं तु भिन्नप्रदेशावगाहादिना | कारणेन भेदेन विवक्षितमतो नीलकाविति व्यपदिष्टमिति द्वितीयः, अथवा द्वौ तथैव कालकावित्युक्ती एकस्त नीलक || इत्येवं तृतीयः, तदेवमेकत्र द्विकसंयोगे त्रयाणां भावादशसु द्विकयोगेषु त्रिंशद्भङ्गा भवन्ति, एते च सूत्रसिद्धा एवेति, दू त्रिवर्णतायां त्वेकवचनस्यैव सम्भवाद्दश त्रिकसंयोगा भवन्तीति, गन्धे त्वेकगन्धत्वे द्वौ द्विगन्धतायां त्वेकत्वानेकत्वाभ्यां पूर्ववत्रयः, 'जइ दफासे'इत्यादि समुदितस्य प्रदेशयत्रस्य द्विस्पर्शतायां द्विप्रदेशिकवच्चत्वारः, त्रिस्पर्शतायां तु सर्वः शीतः प्रदेशत्रयस्यापि शीतत्वात् देशश्च स्निग्धः एकप्रदेशात्मको देशश्च रूक्षो द्विप्रदेशात्मको द्वयोरपि तयोरेकप्रदेशावगाहनादिना एकत्वेन विवक्षितत्वात् , एवं सर्वत्रेत्येको भङ्गः १, तृतीयपदस्यानेकवचनान्तत्वे द्वितीयपदस्यानेकवचनान्तत्वे तृतीयः, तदेवं सर्वशीतेन त्रयो भङ्गाः ३ एवं सर्वोष्णेनापि ३ एवं सर्वस्निग्धेनापि ३ एवं सर्वरूक्षेणापि ३ तदेवमेते द्वादश १२, चतुःस्पर्शतायां तु देसे सीए'इत्यादि, एकवचनान्तपदचतुष्टय आद्यः, स्थापना चेयम् :: अन्त्यपदस्यानेकवचनान्तत्वे तु द्वितीयः, स चैवं-द्वयरूपो देशः शीत एकरूपस्तूष्णः पुनः शीतयोरेकः स्निग्धः द्वितीयश्चोष्ण एतौ रूक्षाविति रूक्षपदेडनेकवचनं, तृतीयस्त्वनेकवचनान्ततृतीयपदः, स चैवम्-एकरूपो देशः शीतो द्विरूपस्तूष्णः, तथा यः शीतो यश्चोष्णयोरेकस्तो स्निग्धौ इत्येवं स्निग्धपदेऽनेकवचनं यश्चैक उष्णः स रूक्ष इति, चतुर्थस्त्वनेकवचनान्तद्वितीयपदः, स चैव-स्निग्धरूपस्य द्वयस्यैकः शीतो यश्च तस्यैव द्वितीयोऽन्यश्चैको रूक्षः एतावुष्णावित्युष्णपदेऽनेकवचनं, स्निग्धे तु द्वयोरेकप्रदेशा
CASHARA
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org