________________
4-
अट्टविहे, संठाणकरणे णं भंते ! कतिविहे प०, गोयमा! पंचविहे प०, तंजहा-परिमंडलसंठाणे जाव आयतसंठाणकरणेत्ति सेवं भंते ! २त्ति जाव विहरति ।। (सूत्रं ६६०)॥१९-९॥
'कइविहे ण'मित्यादि, तत्र क्रियतेऽनेनेति करणं-क्रियायाः साधकतमं कृतिर्वा करणं-क्रियामात्रं, नन्वस्मिन् व्याख्याने करणस्य निवृत्तेश्च न भेदः स्यात् , निवृत्तेरपि क्रियारूपत्वात् , नैवं, करणमारम्भक्रिया निवृत्तिस्तु कार्यस्य निष्पत्तिरिति ।। 'दबकरणे'त्ति द्रव्यरूपं करणं-दात्रादि द्रव्यस्य वा-कटादेः द्रव्येण-शलाकादिना द्रव्ये वा-पात्रादौ करणं द्रव्यकरणं, 'खेत्त-1 करणं'ति क्षेत्रमेव करणं क्षेत्रस्य वा-शालिक्षेत्रादेः करणं क्षेत्रेण वा करणं स्वाध्यायादेः क्षेत्रकरणं, 'कालकरणे'त्ति काल एव करणं कालस्य वा-अवसरादेः करणं कालेन वा काले वा करणं कालकरणं, "भवकरणं'ति भवो नारकादिः स एव | करणं तस्य वा तेन वा तस्मिन् वा करणम् , एवं भावकरणमपि, शेषं तूद्देशकसमाप्तिं यावत् सुसममिति ॥ एकोनविंशतितमशते नवमः॥१९-९॥
नवमे करणमुक्तं, दशमे तु व्यन्तराणामाहारकरणमभिधीयते इत्येवंसम्बद्धोऽयंवाणमंतराणं भंते ! सवे समाहारा एवं जहा सोलसमसए दीवकुमारुद्देसओ जाच अप्पड्डियत्तिसेवं भंते २॥ (सूत्रं ६६१)॥१९-१०॥
॥ एकूणवीसतिमं सयं सम्मत्तं ॥१९॥
45CACANCY
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org