________________
घातकानां 'नो' नैव 'विज्ञातम्' अवगतं 'नानात्वं' भेदो यदुत वयं वध्यादय एते तु वधकादय इत्यमनस्कत्वात्तेषामिति ॥ उत्पादद्वारे-‘एवं जहा वकंतीए'इत्यादि, इह च व्युत्क्रान्तिः प्रज्ञापनायाः पष्ठं पदं, अनेन च यत्सूचित तदिदं-'किं नेरइएहिंतो उववजति तिरिक्खजोणिएहिंतो उववजंति मणुस्सेहिंतो उववजंति देवेहिंतो उववज्जति !, गोयमा ! नो नेरइएहिंतो उववजति तिरिक्खजोणिएहिंतो उववजति मणुस्सेहितो उववजंति देवहितो उववजंति ॥ समुद्घातद्वारे-'समोहयावि'त्ति समुद्घाते वर्तमानाः कृतदण्डा इत्यर्थः 'असमोहयावित्ति दण्डादुपरता अकृतसमुद्घाता वा ॥ उद्वर्त्तनाद्वारे एवं उच्चट्टणा जहा वकंतीए'त्ति, अनेन चेदं सूचितं-किं नेरइएसु जाव देवेसु?, गोयमा! नो नेरइएसु उववज्जति तिरिक्खजोणिएसु उव० मणुस्सेसु उववजंति नो देवेसु उववजंति'त्ति । तेजस्कायिकदण्डके 'नवरं उववाओ ठिई उबट्टणा य जहा पन्नवणाए'त्ति, इह स्यादादिद्वाराणि पृथिवीकायिकदण्डकवद्वाच्यानि, उत्पादादिषु है पुनर्विशेषोऽस्ति स च प्रज्ञापनायामिवेह द्रष्टव्यः, स चैवमर्थतः तेषामुपपातस्तिर्यग्मनुष्येभ्य एव स्थितिस्तूत्कृष्टाऽहोरात्रत्रयं तत उद्धृत्तास्तु ते तिर्यक्ष्वेवोत्पद्यन्ते, यथा चेहोत्पादविशेषोऽस्ति तथा लेश्यायामपि यतस्तेजसोऽप्रशस्तलेश्या एव, पृथिवीकायिकास्त्वाद्यचतुर्लेश्याः, यच्चेदमिह न सूचितं तद्विचित्रत्वात्सूत्रगतेरिति । वायुकायदण्डके 'चत्तारि समुग्घाय'त्ति पृथिव्यादीनामाद्यास्त्रयः समुद्घाताः वायूनां तु वेदनाकषायमारणान्तिकवैक्रियलक्षणाश्चत्वारः समुद्घाताः संभवन्ति | तेषां वैक्रियशरीरस्य सम्भवादिति । वनस्पतिकायदण्डके 'नवरं आहारो नियम छदिसिं'ति यदुक्तं तन्नावगम्यते
dain Education International
For Personal & Private Use Only
www.jainelibrary.org