________________
यिप्रभृतिकानामन्ययूथिकानामेकत्र संहितानां मिथः कथासंलापः समुत्पन्नो यदुत महावीरः पञ्चास्तिकायान् धर्मास्तिकायादीन् प्रज्ञापयति, तत्र च धर्माधर्माकाशपुद्गलास्तिकायानचेतनान् जीवास्तिकायं च सचेतनं तथा धर्माधर्म्माकाशजीवास्तिकायानरूपिणः पुद्गलास्तिकायं च रूपिणं प्रज्ञापयतीति 'से कहमेयं मन्ने एवं 'ति अथ कथमेतद्-धर्मास्तिकायादि वस्तु मन्ये इति वितकार्थः ' एवं ' सचेतनाचेतनादिरूपेण, अदृश्यमानत्वेनासम्भवात्तस्येति हृदयम्, 'अविउप्पक डे'त्ति अपिशब्दः संभावनार्थः उत्-प्राबल्येन च प्रकृता - प्रस्तुता प्रकटा वा उत्प्रकृतोत्प्रकटा वा अथवा अविद्वद्भिः - अजानद्भिः | प्रकृता - कृता प्रस्तुता वा अविद्वत्प्रकृता, 'जइ कज्जं कज्जइ जाणामो पासामो'त्ति यदि तैर्धर्मास्तिकायादिभिः कार्य | स्वकीयं क्रियते तदा तेन कार्येण तान् जानीमः पश्यामश्चावगच्छाम इत्यर्थः धूमेनाग्निमिव, अथ कार्य तैर्न क्रियते तदा न जानीमो न पश्यामश्च, अयमभिप्रायः - कार्यादिलिङ्गद्वारेणैवार्वाग्रहशामतीन्द्रियपदार्थावगमो भवति, न च धर्मास्ति| कायादीनामस्मत्प्रतीतं किञ्चित् कार्यादिलिङ्गं दृश्यत इति तदभावात्तन्न जानीम एव वयमिति ॥ अथ मद्रुकं धर्म्मा|स्तिकायाद्यपरिज्ञानाभ्युपगमवन्तमुपालम्भयितुं यत्ते प्राहुस्तदाह - 'केस ण' मित्यादि, क एष त्वं मड्डुक ! श्रमणोपासकानां | मध्ये भवसि यस्त्वमेतमर्थं श्रमणोपासकज्ञेयं धर्म्मास्तिकायाद्यस्तित्वलक्षणं न जानासि न पश्यसि १, न कश्चिदित्यर्थः ॥ | अथैवमुपालब्धः सन्नसौ यत्तैरदृश्यमानत्वेन धर्मास्तिकायाद्यसम्भव इत्युक्तं तद्विघटनेन तान् प्रतिहन्तुमिदमाह - 'अत्थि | ण'मित्यादि, 'घाणसहगय'त्ति घायत इति प्राणो - गन्धगुणस्तेन सहगताः - तत्सहचरितास्तद्वन्तो घ्राणसहगताः | ' अरणिसहगए'त्ति अरणिः - अभ्यर्थ निर्मन्थनीयकाष्ठं तेन सह गतो यः स तथा तं 'मुहु णं महुया ! तुमं 'ति सुष्ठु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org