________________
'सिय दुवन्ने' त्ति प्रतिप्रदेशं वर्णान्तरभावात् इह च दश विकल्पाः, एवं गन्धादिष्वपि, 'सिय दुफासे त्ति प्रदेशद्वय| स्यापि शीत स्निग्धत्वादिभावात्, इहापि त एव चत्वारो विकल्पाः, 'सिय तिफासे'त्ति इह चत्वारो विकल्पास्तत्र प्रदेशद्वयस्यापि शीतभावात्, एकस्य च तत्र स्निग्धभावात् द्वितीयस्य च रूक्षभावादेकः, 'एवम्' अनेनैव न्यायेन प्रदेशद्वय| स्योष्णभावाद्वितीयः, तथा प्रदेशद्वयस्यापि स्निग्धभावात् तत्र चैकस्य शीतभावादेकस्य चोष्णभावात्तृतीयः, 'एवम्' अने| नैव न्यायेन प्रदेशद्वयस्य रूक्षभावाच्चतुर्थ इति, 'सिय चउफासे'त्ति इह 'देसे सीए देसे उसिणे देसे निद्धे देसे लक्खे' त्ति वक्ष्यमाणवचनादेकः, एवं त्रिप्रदेशादिष्वपि स्वयमभ्यूह्यम् || 'सुमपरिणए णमित्यादि, अनन्तप्रदेशिको बादरपरि - णामोऽपि स्कन्धो भवति द्व्यणुकादिस्तु सूक्ष्मपरिणाम एवेत्यनन्तप्रदेशिकस्कन्धः सूक्ष्मपरिणामत्वेन विशेषितस्तत्राद्याश्च - त्वारः स्पर्शाः सूक्ष्मेषु बादरेषु चानन्तप्रदेशिकस्कन्धेषु भवन्ति, मृदुकठिनगुरुलघुस्पर्शास्तु बादरेष्वेवेति ॥ अष्टादशशते षष्ठः ॥ १८-६ ॥
पष्ठोदेशके नयवादिमतमाश्रित्य वस्तु विचारितं, सप्तमे त्वन्ययूथिकमतमाश्रित्य तद्विचार्यते इत्येवंसम्बन्धस्यास्ये. दमादिसूत्रम् -
रायगिहे जाव एवं वयासी - अन्नउत्थिया णं भंते । एवमाइक्वंति जाव परूवेंति एवं खलु केवली जक्खाएसेणं आतिट्ठे समाणे आहच्च दो भासाओ भासति, तं०-मोसं वा सच्चामोसं वा, से कहमेयं भंते !
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org