SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ 4SARRAAT घातगत एव वियते ईलिकागत्योसादस्थानं याति तदोच्यते पूर्व सम्प्राप्य-पुद्गलान् गृहीत्वा पश्चादुत्पद्येत, प्राक्तनशरीरस्थजीवप्रदेशसंहरणतः समस्तजीवप्रदेशैरुत्पत्तिक्षेत्रगतो भवेदिति भावः, 'देसेण वा समोहन्नइ सधेण वा समोहन्नइति यदा मारणान्तिकसमुद्घातगतो म्रियते तदा ईलिकागत्योत्पत्तिदेशं प्राप्नोति तत्र च जीवदेशस्य पूर्वदेहे एव स्थितत्वाद् देशस्य चोत्सत्तिदेशे प्राप्तत्वात् देशेन समवहन्तीत्युच्यते, यदा तुमारणान्तिकसमुद्घातात् प्रतिनिवृत्तःसन् म्रियते तदा सर्वप्रदेशसंहरणतो गेन्दुकगत्योसत्तिदेशं प्राप्तौ सर्वेण समवहत इत्युच्यते, तत्र च देशेन समवहन्यमानः-ईलिकागत्या गच्छन्नित्यर्थः पूर्व सम्प्राप्य-पुद्गलान् गृहीत्वा पश्चादुत्पद्यते-सर्वात्मनोत्पादक्षेत्रे आगच्छति, 'सबेणं समोहणमाणे'त्ति गेन्दुकगत्या गच्छ|न्नित्यर्थः, पूर्वमुत्पद्य-सर्वात्मनोत्पाददेशमासाद्य पश्चात् 'संपाउणेज'त्ति पुद्गलग्रहणं कुर्यादिति ॥ सप्तदशशते षष्ठः॥१७-६॥ शेषास्तु सुगमा एव ॥ १७-७-८-९-१०-११-१२-१३-१४-१५-१६-१७ ॥ तदेवं सप्तदशशतं वृत्तितः परिसमाप्तम् ॥ शते सप्तदशे वृत्तिः, कृतेयं गुर्बनुग्रहात् । यदन्धो याति मार्गेण, सोऽनुभावोऽनुकर्षिणः॥१॥ SALILABANGLA इति श्रीमदभयदेवाचार्यविहितवृत्तियुत सप्तदशं शतं समाप्तम् ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy