SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥६४३॥ | तेषां स्थावरत्वेन गमनरूपा गतिर्नास्ति स्वभावतस्तथाऽपि परप्रत्यया सा भवतीति शुभाशुभत्वेनेष्टानिष्टव्यपदेशार्हा स्यात्, | अथवा यद्यपि पापरूपत्वात्तिर्यग्गतिरनिष्टैव स्यात्तथाऽपीषत्प्राग्भाराऽप्रतिष्ठानादिक्षेत्रोत्पत्तिद्वारेणेष्टानिष्टगतिस्तेषां भावनीयेति, 'एवं जाव परक्कमेति वचनादिदं दृश्यम् — 'इट्ठाणिट्ठा ठिई' सा च गतिवद्भावनीया 'इट्ठाणिट्ठे लावन्ने' | | इदं च मण्यन्धपाषाणादिषु भावनीयम् 'इट्ठाणिट्टे जसोकित्ती' इयं सत्प्रख्यात्यसत्प्रख्यातिरूपा मण्यादिष्वेवावसेयेति, | 'इट्ठाणिट्ठे उट्ठाणजाव परक्कमे' उत्थानादि च यद्यपि तेषां स्थावरत्वान्नास्ति तथाऽपि प्राग्भवानुभूतोत्थानादिसंस्कारव| शातदिष्टमनिष्टं वाऽवसेयमिति । 'बंदिया सत्तट्टाणाई' ति शब्दरूपगन्धानां तदविषयत्वात्, रसस्पर्शादिस्थानानि च | शेषाण्येकेन्द्रियाणामिवेष्टानिष्टान्यवसेयानि, गतिस्तु तेषां त्रसत्वाद्गमनरूपा द्विधाऽप्यस्ति भवगतिस्तूत्पत्तिस्थानविशेषेणे|ष्टानिष्टाऽवसेयेति ॥ अथ 'तिरियपोग्गले देवे' इत्यादिद्वारगाथोक्तार्थाभिधानायाह देवे णं भंते ! महिडीए जाव महेसक्खे बाहिरए पोग्गले अपरियाइत्ता पभू तिरियपचयं वा तिरिय भित्तिं वा उल्लंघेत्तए वा पल्लंघेत्तए वा ?, गोयमा ! णो तिणट्टे समट्ठे । देवे णं भंते ! महिहिए जाव महे| सक्खे बाहिरए पोग्गले परियाइत्ता पभू तिरिय जाव पल्लवेत्तए वा ?, हंता पभू । सेवं भंते ! सेवं भंतेत्ति ( सूत्रं ५१७ ) । १४-५ ॥ 'देवे 'मित्यादि, 'बाहिरए' त्ति भवधारणीयशरीरव्यतिरिक्तान् 'अपरियाइत्त'त्ति 'अपर्यादाय' अगृहीत्वा 'तिरि यपचयं ति तिरश्चीनं पर्वतं गच्छतो मार्गावरोधकं 'तिरियं भित्तिं वत्ति तिर्यग्भित्तिं- तिरश्चीनां प्राकारवरण्डिका Jain Education International For Personal & Private Use Only १४ शतके ५ उद्देशः | नारकादीनां दशादिस्थानानुभ वः सू ५१६ पुद्गलानादा ने पर्वताद्यलङ्घनं सू ५१७ ॥६४३॥ www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy