SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ असुरकुमारा देवा वुट्टिकायं पकरेंति ?, गोयमा ! जे इमे अरहंता भगवंता एएसि णं जम्मणमहिमासु वा निक्खमणमहिमासु वा णाणुप्पायमहिमासु वा परिनिवाणमहिमासु वा एवं खलु गोयमा ! असुरकुमारावि देवा बुट्ठिकार्य पकरेंति, एवं नागकुमारावि एवं जाव थणियकुमारा वाणमंतरजोइसियवेमाणिय एवं चेव (सूत्रं ५०४ ) ॥ 'कतिवि ण' मित्यादि, 'उन्मादः' उन्मत्तता विविक्त चेतनाभ्रंश इत्यर्थः 'जक्खाएसे य'त्ति यक्षो - देवस्तेनावेश:प्राणिनोऽधिष्ठानं यक्षावेशः, 'मोहणिज्जस्से' त्यादि तत्र मोहनीयं - मिथ्यात्वमोहनीयं तस्योदयादुन्मादो भवति यतस्त| दुदयवत्र्त्ती जन्तुरतत्त्वं तत्त्वं मन्यते तत्त्वमपि चातत्त्वं चारित्रमोहनीयं वा यतस्तदुदये जानन्नपि विषयादीनां स्वरूप - मजानन्निव वर्त्तते, अथवा चारित्रमोहनीयस्यैव विशेषो वेदाख्यो मोहनीयं यतस्तदुदयविशेषेऽप्युन्मत्त एव भवति, | यदाह - " चिंतेइ १ दडुमिच्छइ २ दीहं नीससइ ३ तह जरे ४ दाहे ५ । भत्तअरोअग ६ मुच्छा ७ उम्माय ८ न याई ९ मरणं १० ॥ १ ॥” इति । [ चिन्तयति द्रष्टुमिच्छति दीर्घ निःश्वसिति तथा ज्वरो दाहः । भक्तारोचकत्वं मूर्च्छा उन्मादो न जानाति मरणं च ॥ ] एतयोश्चोन्मादत्वे समानेऽपि विशेषं दर्शयन्नाह - 'तत्थ ण' मित्यादि तत्र तयोर्मध्ये 'सुहवेयणतराए चेव' त्ति अतिशयेन सुखेन - मोहजन्योन्मादापेक्षयाऽक्लेशेन वेदनं - अनुभवनं यस्यासौ सुख| वेदनतरः स एव सुखवेदनतरकः, चैवशब्दः स्वरूपावधारणे, 'सुहविमोयणतराए चेव'त्ति अतिशयेन सुखेन विमोचनं| वियोजनं यस्मादसौ सुखविमोचनतरः, कप्रत्ययस्तथैव । 'तत्थ ण' मित्यादि, मोहजन्योन्माद इतरापेक्षया दुःखवेदनतरो Jain Educational For Personal & Private Use Only jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy