________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥६३३॥
Jain Education
णुववन्नग'त्ति अनन्तरं - अव्यधानं परम्परं च द्वित्रादिसमय रूपमविद्यमानं उत्पन्नं-उत्पादो येषां ते तथा एते च विग्र| हगतिकाः, विग्रहगतौ हि द्विविधस्याप्युत्पादस्याविद्यमानत्वादिति ॥ अथानन्तरोपपन्नादीनाश्रित्यायुर्बन्धमभिधातुमाह'अणंतरे'त्यादि, इह चानन्तरोपपन्नानामनन्तरपरम्परानुपपद्मानां च चतुर्विधस्याप्यायुषः प्रतिषेधोऽध्येतव्यः, तस्यामवस्थायां तथाविधाध्यवसायस्थानाभावेन सर्वजीवानामायुषो बन्धाभावात्, स्वायुषस्त्रिभागादौ च शेषे बन्धसद्भावात्, परम्परोपपन्नकास्तु स्वायुषः षण्मासे शेषे मतान्तरेणोत्कर्षतः षण्मासे जघन्यतश्चान्तर्मुहूर्त्ते शेषे भवप्रत्ययात्तिर्यग्मनुष्यायुषी एव कुर्वन्ति नेतरे इति, 'एवं जाय वेमाणिय' ति अनेनो कालापकत्रययुक्तश्चतुर्विंशतिदण्डकोऽभ्येतन्य इति सूचितं यश्चात्र विशेषस्तं दर्शयितुमाह- 'नवरं पंचिदिए' त्यादि ॥ अथानन्तरनिर्गतत्वादिनाऽपरं दण्डकमाह'नेरइया ण'मित्यादि, तत्र निश्चितं स्थानान्तरप्राप्त्या गतं गमनं निर्गतं अनन्तरं समयादिना निर्व्यवधानं निर्गतं येषां | तेऽनन्तरनिर्गतास्ते च येषां नरकादुद्वृत्तानां स्थानान्तरं प्राप्तानां प्रथमः समयो वर्त्तते, तथा परम्परेण - समयपरम्परया निर्गतं येषां ते तथा, ते च येषां नरकादुद्वृत्तानामुत्पत्तिस्थानप्राप्तानां त्यादयः समयाः, अनन्तरपरम्परानिर्गतास्तु ये | नरकादुद्वृत्ताः सन्तो विग्रहगतौ वर्त्तन्ते न तावदुत्पाद क्षेत्रमासादयन्ति तेषामनन्तरभावेन परम्परभावेन चोत्पादक्षेत्राप्राप्तत्वेन निश्चयेनानिर्गतत्वादिति ॥ अथानन्तरनिर्गतादीनाश्रित्यायुर्बन्धमभिधातुमाह- 'अणंतरे' त्यादि, इह च पर|म्परानिर्गता नारकाः सर्वाण्यायूंषि बध्नन्ति यतस्ते मनुष्याः पञ्चेन्द्रियतिर्यञ्च एव च भवन्ति, ते च सर्वायुर्बन्धका | एवेति, एवं सर्वेऽपि परम्परनिर्गता वैक्रियजन्मान', औदारिकजन्मानोऽप्युद्वृत्ताः केचिन्मनुष्यपञ्चेन्द्रियतिर्यञ्चो भवन्त्य
For Personal & Private Use Only
१४ शतके १ उद्देशः अनन्तराद्युपपन्नायुः
करणादि
सू ५०२
॥६३३॥
5ainelibrary.org