________________
Jain Education In
106+6+0
बहुतैवं मन्यसे त्वं गौतम ! भवेत्तद्रूपं भवेत्स स्वभावः शीघ्रतायां नरक गतेस्तद्विषयस्य च यदुक्तं विशेषणपुरुषबाहुप्रसारणा| देरिति, एवं गौतममतमाशङ्का भगवानाह - नाथमर्थः समर्थः, अथ कस्मादेव मित्याह-- 'मेरइयाण' मित्यादि, अयमभिप्रायः - नारकाणां गतिरेकद्वित्रिसमया बाहुप्रसारणादिका चासवेयसमबेति कथं तादृशी गतिर्भवति नारकाणामिति, तत्र च ' एगसमएण वत्ति एकेन समयेनोपपद्यन्त इति योगा, ते च ऋजुगतावेव, वाशब्दो विकल्पे, इह च विग्रहशब्दो न सम्बन्धितः, तस्यैकसामायिकस्याभावात्, 'दुसमएण वत्ति द्वौ समयौ यत्र स द्विसमयस्तेन विग्रहेणेति योगः, एवं त्रिसमयेन वा विग्रहेण वक्रेण, तत्र द्विसमयो विग्रह एवं मदा भरतस्य पूर्वस्या दिशौ नरके पश्चिमायामुत्पद्यते तदैकेन समयेनाधो याति द्वितीयेन तु तिर्यगुत्पत्तिस्थानमिति, त्रिसमयविग्रहस्वेवं यदा भरतस्य पूर्वदक्षिणाया दिशो नारकेऽपरोत्तरायां दिशि गत्वोत्पद्यते तदैकेन समयेनाधः समश्रेण्या याति द्वितीयेन च तिर्यक् पश्चिमायां तृतीयेन तु तिर्यगेव वायव्यां दिशि उत्पत्तिस्थानमिति, तदनेन गतिकाल उक्तः, एतदभिधानाच्च शीघ्रा गति| र्यादृशी तदुक्तमिति, अथ निगमयन्नाह - 'नेरइयाण' मित्यादि, 'तहा सीहा गइत्ति यथोत्कृष्टतः समयत्रये भवति 'तहा सीहे गइविसए'त्ति तथैव, 'एगिंदियाणं घडसामइए विग्गहे'त्ति उत्कर्षतश्चतुःसमय एकेन्द्रियाणां 'विग्रहो' वक्रगतिर्भवति, कथम् ?, उच्यते, त्रसुनाच्या बहिस्तादधोलोके विदिशो दिशं बात्येकेन, जीवानामनुश्रेणिगमनात्, द्वितीयेन तु लोकमध्ये प्रविशति तृतीयेनोई याति चतुर्थेन तु त्रसनाडीतो निर्गत्य दिग्व्यवस्थितमुत्पादस्थानं प्राप्नोतीति, एतच बाहुल्य मङ्गीकृत्योच्यते, अन्यथा पञ्चसमयोऽपि विग्रहो भवेदेकेन्द्रियाणां तथाहि त्रसनाच्या बहिस्तादधोलोके
For Personal & Private Use Only
ainelibrary.org