________________
अनन्तरोद्देशके वैक्रियकरणमुक्तं, तच्च समुद्घाते सति छद्मस्थस्य भवतीति छाद्मस्थिकसमुद्घाताभिधानार्थो दशम उद्देशकस्तस्य चेदमादिसूत्रम्| कति णं भंते ! छाउमत्थियसमुग्घाया पन्नत्ता ?, गोयमा ! छ छाउमत्थिया समुग्घाया पन्नत्ता, तंजहा-18|| * वेयणासमुग्घाए एवं छाउमत्थियसमुग्घाया नेयवा जहा पन्नवणाए जाव आहारगसमुग्धायेत्ति । सेवं भंते !
सेवं भंतेत्ति (सूत्रं ४९९)॥१३-१०॥ तेरसमं सयं समत्तं ॥ ___ 'कह णमित्यादि, 'छाउमत्थिय'त्ति छद्मस्थः-अकेवली तत्र भवाञ्छास्थिकाः 'समुग्घाये'ति 'हन हिंसागत्योः' हननं घातः सम्-एकीभावे उत्-प्राबल्ये ततश्चैकीभावेन प्राबल्येन च घातः समुद्घातः, अथ केन सहकीभावगमनम् ?, उच्यते, यदाऽऽत्मा वेदनादिसमुद्घातं गतस्तदा वेदनाद्यनुभवज्ञानपरिणत एव भवतीति वेदनाद्यनुभवज्ञानेन सहैकीभावः, प्राबल्येन घातः कथम् ?, उच्यते, यस्माद्वेदनादिसमुद्घातपरिणतो बहून् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवनयोग्यानुदीरणाकरणेनाकृष्योदये प्रक्षिप्यानुभूय निर्जरयति-आत्मप्रदेशैः सह संश्लिष्टान् सातयतीत्यर्थः अतः प्राबल्येन घात इति, अयं चेह षड्विध इति बहुवचनं, तत्र 'वेयणासमुग्घाए'त्ति एकः, "एवं छाउमथिए'। || इत्यादिअतिदेशः, 'जहा पन्नवणाए'त्ति इह षट्त्रिंशत्तमपद इति शेषः, ते च शेषाः पञ्चैवं–'कसायसमुग्घाए २ | मारणंतियसमुग्घाए ३ वेउवियसमुग्घाए ४ तेयगसमुग्घाए ५ आहारगसमुग्घाए ६' त्ति, तत्र वेदनासमुद्घातः | असद्वेद्यकश्रियः कषायसमुद्घातः कषायाख्यचारित्रमोहनीयकश्रियः मारणान्तिकसमुद्घातः अन्तर्मुहूर्तशे
SARALLURES
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org