________________
दोपदे'त्ति अलोकमाश्रित्य 'जइ पुढे'इत्यादि यदि स्पृष्टस्तदा जघन्यपदे एकेन धर्मास्तिकायप्रदेशेन स्पृष्टः, कथम ?. एवंविधलोकान्तवर्तिना धर्मास्तिकायैकप्रदेशेन शेषधर्मास्तिकायप्रदेशेभ्यो निर्गतेनैकोऽग्रभागवर्त्यलोकाकाशप्रदेशः स्पृष्टो | वक्रगतस्त्वसौ द्वाभ्यां यस्य चालोकाकाशप्रदेशस्याग्र। तोऽधस्तादुपरि च धर्मास्तिकायप्रदेशाः सन्ति स | त्रिभिर्धर्मास्तिकायप्रदेशैः स्पृष्टः, स चैवम्-_ यस्त्वेवं- लोकान्ते कोणगतो व्योमप्रदेशोऽसावेकेन धर्मास्तिकायप्रदेशेन तदवगाढेनान्येन चोपरिवर्ति नाऽधोवर्तिना वा द्वाभ्यां च दिगदयावस्थिताभ्यां स्पृष्ट इत्येवं चतुर्भिः यश्चाध उपरि च तथा दिग्द्वये तत्रैव वर्तमानेन धर्मास्तिकायप्रदेशेन स्पृष्टः स पञ्चभिः यः पुनरध उपरि |च तथा दिक्त्रये तत्रैव च प्रवर्त्तमानेन धर्मास्तिकायप्रदेशेन स्पृष्टः स षभिः, यश्चाध उपरि च तथा दिक्चतुष्टये तत्रैव |च वर्तमानेन धर्मास्तिकायप्रदेशेन स्पृष्टः स सप्तभिर्धास्तिकायप्रदेशैः स्पृष्टो भवतीति १, एवमधर्मास्तिकायप्रदेशैरपि ।।
केवइएहिं आगासत्थिकायपएसेहिं ?, 'छहिंति एकस्य लोकाकाशप्रदेशस्यालोकाकाशप्रदेशस्य वा षडूदिग्व्यवस्थितैरेव स्पर्शनात् पद्भिरित्युक्तम् ३ जीवास्तिकायसूत्रे 'सिय पुढे'त्ति यद्यसौ लोकाकाशप्रदेशो विवक्षितस्ततः स्पृष्टः 'सिय |नो पुढे'त्ति यद्यसावलोकाकाशप्रदेशविशेषस्तदा न स्पृष्टो जीवानां तत्राभावादिति ४-५ एवं पुद्गलाद्वाप्रदेशैः ६॥'एगे भंते ! जीवत्थिकायप्पएसे'इत्यादि, जघन्यपदे लोकान्तकोणलक्षणे सर्वाल्पत्वात्तत्र स्पर्शकप्रदेशानां चतुभिरिति, कथम् ?, अध उपरि वा एको द्वौ च दिशोरेकस्तु यत्र जीवप्रदेश एवावगाढ इत्येवं, एकश्च जीवास्तिकायप्रदेश एकत्राकाशप्रदेशादौ केवलिसमुद्घात एव लभ्यत इति, 'उक्कोसपए सत्तहिति पूर्ववत्, 'एवं अहम्मत्यादि पूर्वोक्तानुसा
Jain Education Aleral
For Personal & Private Use Only
INo.jainelibrary.org