SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ दिष्ट आदेशे सति तैयपदिष्टा मतदेव बोभयं तदुभयं तव वक्तुं शक्या, परपर्या आत्माधिकारादत्तप्रभादिभावानात्मत्वादिभावेन चिन्तयन्नाह-'आया भंते!'इत्यादि, अतति-सततं गच्छति तांस्तान पर्यायानित्यात्मा ततश्चात्मा-सद्रूपा रत्नप्रभा पृथिवी 'अन्नत्ति अनात्मा असद्रूपेत्यर्थः 'सिय आया सिय नोआय'त्ति स्यात्सती स्यादसती 'सिय अवत्तवंति आत्मत्वेनानात्मत्वेन च व्यपदेष्टुमशक्यं वस्त्विति भावः, कथमवक्तव्यम् । इत्याह-आत्मेति च नोआत्मेति च वक्तुमशक्यमित्यर्थः, अप्पणो आइडे'त्ति आत्मनः-स्वस्य रत्नप्रभाया एव वर्णादिपर्यायः |'आदिष्टे आदेशे सति तैय॑पदिष्टा सतीत्यर्थः आत्मा भवति,स्वपर्यायापेक्षया सतीत्यर्थः, परस्स आइडे नोआय'त्ति परस्य शर्करादिपृथिव्यन्तरस्य पर्यायैरादिष्टे-आदेशे सति तैर्व्यपदिष्टा सतीत्यर्थः नोआत्मा-अनात्मा भवति, पररूपापेक्षयाड सतीत्यर्थः, 'तदुभयस्स आइहे अवत्तति तयोः-स्वपरयोरुभयं तदेव वोभयं तदुभयं तस्य पर्यायैरादिष्टे-आदेशे सति तदुभयपर्यायैर्व्यपदिष्टेत्यर्थः 'अवक्तव्यम्' अवाच्यं वस्तु स्यात् , तथाहि-न ह्यसौ आत्मेति वक्तुं शक्या, परपर्यायापेक्षयाऽनात्मत्वात्तस्याः, नाप्यनात्मेति वक्तुं शक्या, स्वपर्यायापेक्षया तस्या आत्मत्वादिति, अवक्तव्यत्वं चात्मानात्मशब्दापेक्षयैव न तु सर्वथा, अवक्तव्यशब्देनैव तस्या उच्यमानत्वाद्, अनभिलाप्यभावानामपि भावपदार्थवस्तुप्रभृतिशब्दैरनभिलाप्यशब्देन वाऽभिलाप्यत्वादिति । एवं परमाणुसूत्रमपि ॥ द्विपदेशिकसूत्रे षडू भङ्गाः, तत्राद्यास्त्रयः सकलस्कन्धापेक्षाः पूर्वोक्ता एव तदन्ये तु त्रयो देशापेक्षाः, तत्र च 'गोयमे'त्यत आरभ्य व्याख्यायते-'अप्पणो'त्ति स्वस्य पर्यायैः | |'आदिट्टे'त्ति आदिष्टे-आदेशे सति आदिष्ट इत्यर्थः द्विप्रदेशिकस्कन्ध आत्मा भवति १ एवं परस्य पर्यायैरादिष्टोड़नात्मा २ तदुभयस्य-द्विप्रदेशिकस्कन्धतदन्यस्कन्धलक्षणस्य पर्यायैरादिष्टोऽसाववक्तव्यं वस्तु स्यात्, कथम् !, आत्मेति ध्या . .. in EduLICA For Personal & Private Use Only mi.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy