________________
केवलज्ञानलब्धिका एकज्ञानिनस्ते च केवलज्ञानिन एव, केवलज्ञानस्यालब्धिकास्तु ये ज्ञानिनस्तेषामाचं ज्ञानद्वयं तत्रयं मतिश्रुतावधिज्ञानानि मतिश्रुतमनःपर्यायज्ञानानि वा केवलज्ञानवर्जानि चत्वारि वा ज्ञानानि भवन्ति, ये त्वज्ञानिनस्तेषामाद्यमज्ञानद्वयं तत्रयं वा भवतीत्येवं भजनाऽवसेयेति ॥ 'अन्नाणलद्धियाण'मित्यादि, अज्ञानलब्धिका अज्ञानिनस्तेषां 8 |च त्रीण्यज्ञानानि भजनया, द्वे अज्ञाने त्रीणि वाऽज्ञानानीत्यर्थः, अज्ञानालब्धिकास्तु ज्ञानिनस्तेषां च पश्च ज्ञानानि भजनया| पूर्वोपदर्शितया वाच्यानि, 'जहा अन्नाणे'त्यादि, अज्ञानलब्धिकानां त्रीण्यज्ञानानि भजनयोक्तानि मत्यज्ञानश्रुताज्ञानलब्धिकानामपि तानि तथैव, तथाऽज्ञानालब्धिकानां पञ्च ज्ञानानि भजनयोकानि, मत्यज्ञानश्रुताज्ञानालब्धिकानामपि पश्च ज्ञानानि भजनयैव वाच्यानीति । 'विभंगे'त्यादि, विभङ्गज्ञानलब्धिकानां तु त्रीण्यज्ञानानि नियमात्, तदलब्धिकानां तु ज्ञानिनां पञ्च ज्ञानानि भजनया, अज्ञानिनां च द्वे अज्ञाने नियमादिति ॥'दंसणलडी'त्यादि, 'दर्शनलब्धिकाः' श्रद्धानमात्रलब्धिका इत्यर्थः ते च सम्यश्रद्धानवन्तो ज्ञानिनस्तदितरे त्वज्ञानिना, तत्र ज्ञानिना पश्च ज्ञानानि भजनया, | अज्ञानिनां तु त्रीण्यज्ञानानि भजनयैवेति । 'तस्स अलद्धिया नत्थि'त्ति तस्य दर्शनस्य येषामलब्धिस्ते न सन्त्येव, सर्वजीवानां रुचिमात्रस्यास्तित्वादिति । 'सम्मइंसणलद्धियाणं'ति सम्यग्दृष्टीनां, 'तस्स अलद्धियाण'मित्यादि, 'तस्यालब्धिकानां सम्यग्दर्शनस्यालब्धिमतां मिथ्यादृष्टीनां मिश्रदृष्टीनां च त्रीण्यज्ञानानि भजनया, यतो मिश्रदृष्टीनामप्यज्ञानमेव, तात्त्विकसद्बोधहेतुत्वाभावान्मिश्रस्येति । 'मिच्छादसणलद्धियाणं'ति मिथ्यादृष्टीनां, 'तस्स अलद्धियाण'मित्यादि, 'तस्यालब्धिकाना' मिथ्यादर्शनस्यालब्धिमतां सम्यग्दृष्टीनां मिश्रदृष्टीनां च क्रमेण पञ्च ज्ञानानि त्रीण्यज्ञानानि
dain Education International
For Personal & Private Use Only
www.jainelibrary.org