________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥५८६ ॥
सीइ पुवसयसहस्सा इं'ति ऋषभस्वामिनो यथा । भावदेवानां 'जहनेणं दस वाससहस्साइं 'ति यथा व्यन्तराणां 'उक्कोसेणं तेत्तीस सागरोवमाई'ति यथा सर्वार्थसिद्धदेवानां ॥ अथ तेषामेव विकुर्वणां प्ररूपयन्नाह - 'भवियवदवदे वाण' मित्यादि 'एगन्तं पभू विउवित्तए'त्ति भव्यद्रव्यदेवो मनुष्यः पश्चेन्द्रियतिर्यग्वा वैक्रियलब्धिसम्पन्नः 'एकत्वम्' एकरूपं 'प्रभु' समर्थो विकुर्वयितुं 'पुहुत्तं'ति नानारूपाणि देवातिदेवास्तु सर्वथा औत्सुक्यवर्जितत्वान्न विकुर्वते | शक्तिसद्भावेऽपीत्यत उच्यते- 'नो चेव ण'मित्यादि, 'संपत्तीए 'त्ति वैक्रियरूपसम्पादनेन, विकुर्वणशक्तिस्तु विद्यते, तलब्धिमात्रस्य विद्यमानत्वात् ॥ अथ तेषामेवोद्वर्त्तनां प्ररूपयन्नाह - 'भवियदवे' त्यादि, इह च भविकद्रव्यदेवानां | भाविदेव भवस्वभावत्वान्नारकादिभवत्रयनिषेधः । नरदेवसूत्रे तु 'नेरइएस उववज्जंति'त्ति अत्यक्तकामभोगा नरदेवा नैरयिकेषूत्पद्यन्ते शेषत्रये तु तन्निषेधः, तत्र च यद्यपि केचिचक्रवर्त्तिनो देवेषूत्पद्यन्ते तथाऽपि ते नरदेवत्वत्यागेन धर्मदेवत्वप्राप्ताविति न दोषः, 'जहा वकंतीए असुरकुमाराणं उचट्टणा तहा भाणियवत्ति असुरकुमारा बहुषु | जीवस्थानेषु गच्छन्तीति कृत्वा तैरतिदेशः कृतः, असुरादयो हीशानान्ताः पृथिव्यादिष्वपि गच्छन्तीति ॥ अथ तेषामे| वानुबन्धं प्ररूपयन्नाह - 'भवियद्वदेवे ण' मित्यादि, 'भवियदवदेवे 'त्ति भव्यद्रव्यदेव इत्यमुं पर्यायमत्यजन्नित्यर्थः | 'जहन्त्रेणमंतो मुहुत्त 'मित्यादि पूर्ववदिति । ' एवं जहेव ठिई सच्चैव संचिट्टणावित्ति 'एवम्' अनेन न्यायेन यैव 'स्थिति:' भवस्थितिः प्रागू वर्णिता सेवैषां संस्थितिरपि तत्पर्यायानुबन्धोऽपीत्यर्थः, विशेषं स्वाह-'नवर' मित्यादि, धर्म| देवस्य जघन्येनैकं समयं स्थितिः अशुभभावं गत्वा ततो निवृत्तस्य शुभभावप्रतिपत्तिसमयानन्तरमेव मरणादिति ॥ अथै
Jain Education International
For Personal & Private Use Only
१२ शतके
९ उद्देशः भव्यद्रव्यदेवाद्याः
॥५८६ ॥
www.jainelibrary.org