SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ तेण'मित्यादि, 'परमाणुपोग्गलमेत्तेवित्ति इहापिः सम्भावनायां 'अयासयस्स'त्ति षष्ट्याश्चतुर्थ्यर्थत्वाद् अजाश४ ताय 'अयावयंति अजाब्रजम् अजावाटकमित्यर्थः 'उक्कोसेणं अयासहस्सं पक्खिवेज'त्ति यदिहाजाशतप्रायोग्ये वाटके उत्कर्षेणाजासहस्रप्रक्षेपणमभिहित तत्तासामतिसङ्कीर्णतयाऽवस्थानख्यापनार्थमिति, 'पउरगोयराओ पउरपाणीयाओ'त्ति प्रचुरचरणभूमयः प्रचुरपानीयाश्च, अनेन च तासां प्रचुरमूत्रपुरीषसम्भवो बुभुक्षापिपासाविरहेण सुस्थतया चिरंजीवित्वं चोक्तं 'नहेहि वत्ति नखाः-खुराग्रभागास्तैः 'नो चेव णं एयंसि एमहालयंसि लोगंसि' इत्यस्य 'अस्थि केइ पमाणुपोग्गलमेत्तेवि पएसे' इत्यादिना पूर्वोक्ताभिलापेन सम्बन्धः, महत्त्वाल्लोकस्य, कथमिदमिति चेदत आह'लोगस्से'त्यादि क्षयिणो ह्येवं न संभवतीत्यत उक्तं लोकस्य शाश्वतभावं प्रतीत्येति योगः, शाश्वतत्वेऽपि लोकस्य | | संसारस्य सादित्वे नैवं स्यादित्यनादित्वं तस्योक्तं, नानाजीवापेक्षया संसारस्यानादित्वेऽपि विवक्षितजीवस्यानित्यत्वे नोक्तोऽर्थः स्यादतो जीवस्य नित्यत्वमुक्तं, नित्यत्वेऽपि जीवस्य कर्माल्पत्वे तथाविधसंसरणाभावान्नोक्तं वस्तु स्यादतः कर्म| बाहुल्यमुक्तं, कर्मबाहुल्येऽपि जन्मादेरल्पत्वे नोक्तोऽर्थः स्यादिति जन्मादिबाहुल्यमुक्तमिति ॥एतदेव प्रपञ्चयन्नाह| कति णं भंते ! पुढवीओ पण्णत्ताओ?, गोयमा ! सत्त पुढवीओ पण्णत्ताओ जहा पढमसए पंचमउद्देसए तहेव आवासा ठावेयवा जाव अणुत्तरविमाणेत्ति जाव अपराजिए सबट्टसिद्धे । अयन्नं भंते! जीवे इमीसे रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसि पुढविकाइयत्ताए जाव Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy