________________
मानानामपर्याप्तकानां विभङ्गाभावात् शेषाणां चावधेर्विभङ्गस्य वा भावात् । 'जोइसिए' त्यादि एतेषु हि सञ्ज्ञिभ्य एवोत्पद्यन्ते तेषां चापर्याप्तकत्वेऽपि भवप्रत्ययस्यावधेर्विभङ्गस्य चावश्यम्भावात् त्रीणि ज्ञानान्यज्ञानानि वा स्युरिति । 'नोपज्जत्तगनो अपज्जन्त्तग'त्ति सिद्धाः ॥ भवस्थद्वारे - 'निरयभवत्था ण' मित्यादि, निरयभवे तिष्ठन्तीति निरयभवस्थाः - प्राप्तोत्पत्तिस्थानाः, ते च यथा निरयगतिकास्त्रिज्ञाना द्व्यज्ञानाख्यज्ञानाश्चोत्तास्तथा वाच्या इति ॥ भवसिद्धिकद्वारे - 'जहा सकाइय'त्ति भवसिद्धिकाः केवलिनोऽपीति ते सकायिकवद्भजनया पञ्चज्ञानाः तथा यावत्सम्यक्त्वं न | प्रतिपन्नास्तावद्भजनयैव त्र्यज्ञानाश्च वाच्या इति । अभवसिद्धिकानां त्वज्ञानत्रयं भजनया स्यात् सदा मिथ्यादृष्टित्वात्तेषामत उक्तं 'नो नाणी अन्नाणी 'त्यादीति ॥ सज्जिद्वारे - 'जहा सइंदिय'त्ति ज्ञानानि चत्वारि भजनया अज्ञानानि च त्रीणि तथैवेत्यर्थः । 'असन्नी जहा बेइंदिय'त्ति अपर्याप्तकावस्थायां ज्ञानद्वयमपि सासादनतया स्यात्, पर्याप्तकाव स्थायां त्वज्ञानद्वयमेवेत्यर्थः ॥ लब्धिद्वारे लब्धिभेदान् दर्शयन्नाह
विहा णं भंते ! लद्धी पण्णत्ता ?, गोयमा ! दसविहा लद्धी पण्णत्ता, तंजहा-नाणलद्वी १ दंसणलद्वी २ चरित्तलद्धी ३ चरित्ताचरित्तलद्धी ४ दाणलद्धी ५ लाभलडी ६ भोगलद्धी ७ उवभोगलडी ८ वीरियलद्धी ९ इंदियलद्धी १० । णाणलद्वी णं भंते ! कइविहा पण्णत्ता ?, गोयमा ! पंचविहा पण्णत्ता, तंजा-अभि णिबोहियणाणलंडी जाव केवलणाणलद्धी ॥ अन्नाणलडी णं भंते ! कतिविहा पण्णत्ता ?, गोयमा ! तिविहा पण्णत्ता, तंजहा - मइ अन्नाणलद्धी सुयअन्नाणलद्धी विभंगनाणलडी ॥ दंसणलद्धी णं भंते! कतिविहा पन्नत्ता ?,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org