SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ | इत्यादि, यश्चेह विशेषस्तमाह — 'नवरं एगट्ठियवज्जं ति इहाभिनिबोधिकज्ञाने 'उग्गिण्हणया अवधारणया सवणया अवलंबणया मेहे 'त्यादीनि [पञ्च] पञ्च पञ्चैकार्थिकान्यवग्रहादीनामधीतानि, मत्यज्ञाने तु न तान्यध्येयानीति भावः, 'जाव नोइंदियधारण' त्ति इदमन्त्यपदं यावदित्यर्थः, 'जं इमं अन्नाणिएहिं 'ति यदिदम् 'अज्ञानिकैः' निर्ज्ञानैः, तत्राल्पज्ञानभावादधनवदशीलवद्वा सम्यग्दृष्टयोऽप्यज्ञानिकाः प्रोच्यन्तेऽत एवाह - मिथ्यादृष्टिभिः, 'जहा नंदीए 'त्ति, तत्रैवमेतत्सूत्रम् - 'सच्छंदबुद्धिमविगप्पियं तंजहा- भारहं रामायण' मित्यादि, तत्रावग्रहेहे बुद्धिः अवायधारणे च मतिः, स्वच्छन्देन - स्वाभिप्रायेण तत्त्वतः सर्वज्ञप्रणीतार्थानुसारमन्तरेण बुद्धिमतिभ्यां विकल्पितं स्वच्छन्दबुद्धिमतिविकल्पितं - स्वबुद्धि कल्पनाशिल्पनिर्मितमित्यर्थः 'चत्तारि य वेय'त्ति साम ऋकू यजुः अथर्वा चेति 'संगोवंग'त्ति इहाङ्गानि - शिक्षादीनि षट् उपाङ्गानि च तद्व्याख्यानरूपाणि 'गामसंठिए त्ति ग्रामालम्बनत्वाद् ग्रामाकारम्, एवमन्यान्यपि, नवरं 'वाससंठिए'त्ति भरतादिवर्षाकारं 'वासहरसंठिए ति हिमवदादिवर्षधरपर्वताकारं 'हय संठिए' अश्वाकारं, 'पसय'त्ति | पसयसंठिए, तत्र पसय:-आटव्यो द्विखुरश्चतुष्पदविशेषः, एवं च नानाविधसंस्थानसंस्थितमिति ॥ अनन्तरं ज्ञानान्यज्ञानानि चोक्तानि, अथ ज्ञानिनोऽज्ञानिनश्च निरूपयन्नाह - 'जीवा णं भंते !' इत्यादि, इह च नारकाधिकारे 'जे नाणी ते नियमा तिन्नाणी'ति सम्यग्दृष्टिनारकाणां भवप्रत्ययमवधिज्ञानमस्तीतिकृत्वा ते नियमाविज्ञानिनः, 'जे | अन्नाणी ते अत्थेगतिया दुअन्नाणी अत्थेगतिया तिअन्नाणी'ति कथम् १, उच्यते, असज्ज्ञिनः सन्तो ये नारके - पूत्पद्यन्ते तेषामपर्याप्तकावस्थायां विभङ्गाभावादाद्यमेवाज्ञानद्वयमिति ते द्व्यज्ञानिनः ये तु मिथ्यादृष्टिसज्ञिभ्य उत्प Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy