________________
एवं भासइति, अस्यायमर्थः - ' जनव्यूहः ' जनसमुदायः बोल:- अव्यक्तवर्णो ध्वनिः कलकलः - स एवोपलभ्यमानवचनविभागः ऊर्मिमः सम्बाधः उत्कलिका - लघुतरः समुदायः संनिपातः - अपरापरस्थानेभ्यो जनानामेकत्र मीलनं आख्याति सामान्यतः भाषते व्यक्तपर्यायवचनतः, एतदेवार्थद्वयं पर्यायतः क्रमेणाह - एवं प्रज्ञापयति एवं प्ररूपयतीति, 'अहापडिवं' इह यावत्करणादिदं दृश्यम् - 'उग्गहं ओगिण्हति ओगिन्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे'त्ति, 'जहा उववाइए' त्ति, तदेव लेशतो दर्श्यते - 'नामगोयस्सवि सवणयाए किमंग पुण अभिगमणवंदणणमंसणपडिपुच्छणपज्जुवासणयाए एगस्सवि आयरियस्स सुवयणस्स सवणयाए ? किमंग पुण विउलस्स अट्ठस्स गहणयाए ?, तं गच्छामोणं | देवाणुप्पिया ! समणं ३ वंदामो ४ एयं णे पेच्च भवे हियाए ५ भविस्सइत्तिकट्टु बहवे उग्गा उग्गपुत्ता एवं भोगा राइन्ना खत्तिया भडा अप्पेगइया वंदणवत्तियं एवं पूयणवत्तियं सक्कारवत्तियं ( सम्माणवत्तियं ) को उहलवत्तियं अप्पेगतिया जीयमेयंतिकट्टु व्हाया कयबलिकम्मा' इत्यादि 'एवं जहा उववाइए' तत्र चैतदेवं सूत्रं - 'तेणामेव उवागच्छति तेणामेव | उवागच्छित्ता छत्ताइए तित्थयरातिसए पासंति जाणवाहणाई ठाईति' इत्यादि ॥ 'अयमेयारूवे 'ति अयमेतद्रूपो वक्ष्य|माणस्वरूपः 'अज्झत्थिए 'त्ति आध्यात्मिकः - आत्माश्रितः, यावत्करणादिदं दृश्यं - 'चिंतिए' त्ति स्मरणरूपः 'पत्थिए 'त्ति प्रार्थितः - लब्धुं प्रार्थितः 'मणोगए'त्ति अबहिः प्रकाशितः 'संकप्पे'त्ति विकल्पः 'इंदमहेइ व'त्ति इन्द्रमह - इन्द्रोत्सवः | 'खंदमहे वत्ति स्कन्दमहः - कार्त्तिकेयोत्सवः 'मुकुंदद्महे वत्ति इह मुकुन्दो वासुदेवो बलदेवो वा 'जहा उबवाइए' ति | तत्र चेदमेवं सूत्रं - 'माहणा भडा जोहा मल्लई लेच्छई अने य बहवे राईसर तलवरमाडं बियकोटुंबिय इब्भ से डिसेणावई 'त्ति
Jain Education International
For Personal & Private Use Only
1967-969
www.jainelibrary.org