________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः२/
॥४६॥
AUGUSAROKAR
देवास्ति । 'सच्चित्ताणं दवाणं विसरणयाए'त्ति पुष्पताम्बूलादिद्रव्याणां व्युत्सर्जनया त्यागेनेत्यर्थः 'अचित्ताणं ||
| ९शतके दवाणं अविमोयणयाए'त्ति वस्त्रादीनामत्यागेनेत्यर्थः 'मणस्स एगत्तीभावकरणेणं' अनेकस्य सत एकतालक्षणभाव- उद्देशः ३३ करणेन 'ठिया चेव'त्ति ऊर्द्धस्थानस्थितैव अनुपविष्टेत्यर्थः 'आगयपण्हय'त्ति 'आयातप्रश्रवा' पुत्रस्नेहादागतस्तनमु- ऋषभदत्तदे खस्तन्येत्यर्थः 'पप्फुयलोयणा' प्रप्लुतलोचना पुत्रदर्शनात् प्रवर्तितानन्दजलेन 'संवरियवलयबाहा' संवृतौ-हर्षातिरे- वानन्दाधि कादतिस्थरीभवन्तौ निषिद्धौ वलयैः-कटकैर्बाहू-भुजौ यस्याःसा तथा 'कंचुयपरिखित्तिया' कञ्चको-वारवाणः परिक्षिप्तो- सू ३८२ विस्तारितो हर्षातिरेकस्थूरीभूतशरीरतया यया सा तथा धाराहयकयंबगंपिव समूसवियरोमकूवा' मेघधाराभ्याहतकदम्बपुष्पमिव समुच्छृसितानि रोमाणि कूपेषु-रोमरन्ध्रेषु यस्याःसा तथा 'देहमाणी'ति प्रेक्षमाणा, आभीक्ष्ण्ये चात्र द्विरुक्तिः॥ 'भंते' त्ति भदन्त ! इत्येवमामन्त्रणवचसाऽऽमन्येत्यर्थः 'गोयमाइ'त्ति गौतम इति एवमामन्त्र्येत्यर्थः अथवा गौतम इति नामोच्चारणम् 'अहे'ति आमन्त्रणार्थों निपातः हे भो इत्यादिवत् 'अत्तए'त्ति आत्मजः-पुत्रः 'पुवपुत्तसिणेहाणुराएणं'ति पूर्व:-प्रथमगर्भाधानकालसम्भवो यः पुत्रस्नेहलक्षणोऽनुरागः स पूर्वपुत्रस्नेहानुरागस्तेन 'महतिमहालियाए'त्ति महती चासावतिमहती चेति महातिमहतीतस्यै, आलप्रत्ययश्चेह प्राकृतप्रभवः, इसिपरिसाए'त्ति पश्यन्तीति ऋषयो-ज्ञानिनस्तद्रूपा| पर्षत्-परिवार ऋषिपर्षत्तस्यै, यावत्करणादिदं दृश्य-मुणिपरिसाए जइपरिसाए अणेगसयाए अणेगसयविंदपरिवाराए'
॥४६०॥ इत्यादि, तत्र मुनयो-वाचंयमा यतयस्तु-धर्मक्रियासु प्रयतमानाःअनेकानि शतानि यस्याः सा तथा तस्यै अनेकशतप्रमाणानि वृन्दानि-परिवारो यस्याः सा तथा तस्यै ॥ 'तए णं सा अजचंदणा अज्जेत्यादि, इह च देवानन्दाया भगवता प्रवा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org