________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥४४९ ॥
सप्तपदपञ्चकसंयोगानामेकविंशतेर्लाभादष्ट शतानि एकषष्ट्यधिकानि भवन्ति, पट्संयोगेषु तु पूर्वोक्तक्रमेणैकत्र पट्संयोगे एकपञ्चाशद्विकल्पा भवन्ति, अस्याश्च प्रत्येकं सप्तपदषकयोगे सप्तकला भात्रीणि शतानि सप्तपञ्चाशदधिकानि भवन्ति, सप्तकसंयोगे तु पूर्वोक्तभावनयैकषष्टिर्विकल्पा भवन्ति, सर्वेषां चैषां मीलने त्रयस्त्रिंशच्छतानि सप्तत्रिंशदधिकानि भवन्ति ॥ असंखेज्जा भंते ! नेरइया नेरइयपवेसणएणं पुच्छा, गंगेया ! रयणप्पभाए वा होजा जाव अहेसत्तमाए होज्जा, अहवा एगे रयण० असंखेज्जा सक्करप्पभाए होजा, एवं दुयासंजोगो जाव सत्तगसंजोगो य जहा संखिजाणं भणिओ तहा असंखेज्जाणवि भाणियचो, नवरं असंखेज्जाओ अन्भहिओ भाणियवो, सेसं तं चैव जाव सत्तगसंजोगस्स पच्छिमो आलावगो अहवा असंखेज्जा रयण० असंखेज्जा सक्कर० जाव असंखेज्जा अहेसत्तमाए होजा ॥
'असंखेज्जा भंते ! ' इत्यादि, सङ्ख्यातप्रवेशनकवदेवैतदसङ्ख्यातप्रवेशनकं वाच्यं, नवरमिहासङ्ख्यातपदं द्वादशमधीयते, तत्र चैकत्वे सप्तैव, द्विकसंयोगादौ तु विकल्पप्रमाणवृद्धिर्भवति, सा चैवं द्विकसंयोगे द्वे शते द्विपञ्चाशदधिके | २५२, त्रिकसंयोगेऽष्टौ शतानि पञ्चोत्तराणि ८०५, चतुष्कसंयोगे त्वेकादश शतानि नवत्यधिकानि ११९०, पञ्चकसंयोगे | पुनर्नव शतानि पञ्चचत्वारिंशदधिकानि ९४५, षट्संयोगे तु त्रीणि शतानि द्विनवत्यधिकानि ३९२, सप्तकसंयोगे पुनः सप्तषष्टिः, एतेषां च सर्वेषां मीलने षटूत्रिंशच्छतानि अष्टपञ्चाशदधिकानि भवन्तीति ॥ अथ प्रकारान्तरेण नारकप्रवेशनकमेवाह
Jain Education International
For Personal & Private Use Only
९ शतके उद्देशः ३२ एकादिजीवप्रवेशाधि.
सू ३७३
॥४४९ ॥
w.jainelibrary.org