________________
NASANASD845453
धर्मास्तिकायस्यान्योऽन्य-प्रदेशानां परसरेण योऽनादिको विश्रसाबन्धः स तथा, एवमुत्तरत्रापि । 'देसबंधे'त्ति देशतो||देशापेक्षया बन्धो देशबन्धो यथा सङ्कलिकाकटिकानां, 'सबबंधे'त्ति सर्वतः सर्वात्मना बन्धः सर्वबन्धो यथा क्षीरनी-|| रयोः 'देसवन्धे नो सव्वबंधेत्ति धर्मास्तिकायस्य प्रदेशानां परस्परसंस्पर्शेन व्यवस्थितत्वाद्देशबन्ध एव न पुनः सर्वबन्धः, 8 तव एकस्य प्रदेशस्य प्रदेशान्तरैः सर्वथा बन्धेऽन्योऽन्यान्तर्भावेनैकप्रदेशत्वमेव स्यात् नासङ्ग्येयप्रदेशत्वमिति ॥ 'सबद्धं'ति सर्वाद्धां-सर्वकालं 'साइयवीससाबंधे य'त्ति सादिको यो विश्रसाबन्धः स तथा, 'बंधणपञ्चहए'त्ति बध्यते|ऽनेनेति बन्धन-विवक्षितस्निग्धतादिको गुणः स एव प्रत्ययो-हेतुर्यत्र स तथा, एवं भाजनप्रत्ययः परिणामप्रत्ययश्च, नवरं भाजन-आधारः परिणामो-रूपान्तरगमनं 'जन्नं परमाणुपुग्गले'त्यादौ परमाणुपुद्गलः परमाणुरेव 'वेमायनिळ्याए|त्ति विषमा मात्रा यस्यां सा विमात्रा सा चासौ स्निग्धता चेति विमात्रस्निग्धता तया,एवमन्यदपि पदद्वयम् ,इदमुक्तं भवति| "समनिद्धयाए बन्धो न होइ समलुक्खयाएवि न होइ । वेमायनिद्धलुक्खत्तणेण बंधो उ खंधाणं ॥१॥" अयमर्थः-समगुणस्निग्धस्य समगुणस्निग्धेन परमाणुव्यणुकादिना बन्धो न भवति, समगुणरूक्षस्यापि समगुणरूक्षेण, यदा पुनर्विषमा मात्रा तदा भवति बन्धः, विषममात्रानिरूपणार्थ चोच्यते-"निद्धस्स निद्धेण दुयाहिएणं, लुक्खस्स लुक्खेण दुयाहिएणं । निद्धस्स लुक्खेण उवेइ बंधो, जहन्नवजो विसमो समो वा ॥१॥” इति [स्निग्धस्य स्निग्धेन द्विकाधिकेन रूक्षस्य र रूक्षेण द्विकाधिकेन । स्निग्धस्य रूक्षेणोपैति बन्धो जघन्यवों विषमः समो वा ॥१॥] 'बंधणपच्चइएणं'ति बन्धनस्य
बन्धस्य प्रत्ययो-हेतुरुक्तरूपविमात्रस्निग्धतादिलक्षणो बन्धनमेव वा विवक्षितस्नेहादि प्रत्ययो बन्धनप्रत्ययस्तेन, इह च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org