________________
| तत्र बद्धवान् बनातीत्यनयोरुपपद्यमानत्वेऽपि न अन्त्स्यतीति इत्यस्यानुपपद्यमानत्वात् तथाहि - आयुषः पूर्वभागे | उपशान्तमोहत्वादि न लब्धमिति न बद्धवान् तल्लाभसमये च बध्नाति ततोऽनन्तरसमयेषु च मन्त्स्यत्येव न तु न भन्त्स्यति, समयमात्रस्य बन्धस्येहाभावात्, यस्तु मोहोपशमनिर्ग्रन्थस्य समयानन्तरमरणेनैर्यापथिककर्मबन्धः समयमात्रो भवति नासौ षष्ठविकल्पहेतुः, तदनन्तरैर्यापथिककर्म्मबन्धाभावस्य भवान्तरवर्त्तित्वाग्रहणाकर्षस्य चेह प्रक्रान्तत्वात्, यदि पुनः सयोगिचरमसमये बध्नाति ततोऽनन्तरं न भन्त्स्यतीति विवक्ष्येत तदा यत्सयोगिचरमसमये बभ्रातीति तद्बन्धपूर्वकमेव स्यानाबन्धपूर्वकं, तत्पूर्वसमये तस्य बन्धकत्वात् एवं च द्वितीय एव भङ्गः स्यान पुनः षष्ठ इति ६, सप्तमः पुनर्भव्यविशेषस्य ७, अष्टमस्त्वभव्यस्येति ८, इह च भवाकर्षापेक्षेष्वष्टसु भङ्गकेषु 'बंधी बंधइ बंधिस्सइ' इत्यत्र प्रथमे भङ्गे उपशान्तमोहः, 'बंधी बंधइ न बंधिस्सह' इत्यत्र द्वितीये क्षीणमोहः, 'बंधी न बंधइ बंधिस्सर' इत्यत्र तृतीये उपशान्तमोहः, 'बंधी न बंधइ न बंधिस्सह' इत्यत्र चतुर्थे शैलेशीगतः, 'न बंधी बंध बंधिस्स' इत्यत्र पञ्चमे उपशान्तमोहा, 'न बंधी बंधइ न बंधिस्सइ' इत्यत्र षष्ठे क्षीणमोहः, 'न बंधी न बंधह बंधिस्सा' इत्यत्र सप्तमे भव्यः, 'न बंधी न बंधइ न बंधिस्सइ' इत्यत्राष्टमेऽभन्यः, ग्रहणाकर्षापक्षेषु पुनरेतेष्वेव प्रथमे उपशान्तमोहः क्षीणमोहो या, द्वितीये तु केवली, तृतीये तूपशान्तमोहः, चतुर्थे शैलेशीगतः पञ्चमे उपशान्तमोहः क्षीणमोहो वा षष्ठः शून्यः, सप्तमे भव्यो भाविमोहोपशमो भाविमोहक्षयो वा, अष्टमे त्वभव्य इति ॥ अथैर्यापथिवबन्धमेव निरूपयन्नाह - 'त' मित्यादि, 'तत्' ऐर्यापथिकं कर्म्म 'साइयं सपज्जवलिय' मित्यादि चतुर्भङ्गी, तत्र चैर्यापथिककर्म्मणः प्रथम एव भने बन्धोऽन्येषु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org