SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ 955SGAR युषो विषममेव चोत्पन्ना इति चतुर्थः ४, इह सङ्ग्रहगाथा-"आहाराईसु समा कम्मे वन्ने तहेव लेसाए। वियणाए किरि-8 याए आउयउववत्तिचउभंगी ॥१॥" "असुरकुमारा णं भंते 'इत्यादिनाऽसुरकुमारप्रकरणमाहारादिपदनवकोपेतं | सूचितं, तच्च नारकप्रकरणवन्नेयम्, एतदेवाह-'जहा नेरइया इत्यादि, तत्राहारकसूत्रे नारकसूत्रसमानेऽपि भावना| विशेषेण लिख्यते-असुरकुमाराणामल्पशरीरत्वं भवधारणीयशरीरापेक्षया जघन्यतोऽङ्गलासङ्ख्येयभागमानत्वं, महाशरीरत्वं तूत्कर्षतः सप्तहस्तप्रमाणत्वम् , उत्तरवैक्रियापेक्षया स्वल्पशरीरत्वं जघन्यतोऽङ्गुलसङ्ख्यभागमानत्वं महाशरीरत्वं तूत्कर्षतो योजनलक्षमानमिति, तत्रैते महाशरीरा बहुतरान् पुद्गलानाहारयन्ति, मनोभक्षणलक्षणाहारापेक्षया, देवानां ह्यसौ स्यात् प्रधानश्च, प्रधानापेक्षया च शास्त्रे निर्देशो वस्तूनां विधीयते, ततोऽल्पशरीरमाह्याहारपुद्गलापेक्षया बहुतरांस्ते | तानाहारयन्तीत्यादि प्राग्वत् , अभीक्ष्णमाहारयन्ति अभीक्ष्णमुच्छ्सन्ति च इत्यत्र ये चतुर्थादेरुपर्याहारयन्ति स्तोकसप्तकादेचोपर्युच्छ्रसन्ति तानाश्रित्याभीक्ष्णमित्युच्यते, उत्कर्षतो ये सातिरेकवर्षसहस्रस्योपरि आहारयन्ति सातिरेकपक्षस्य चोपर्युच्छ्स-2 न्ति तानङ्गीकृत्य एतेषामल्पकालीनाहारोच्छासत्वेन पुनः पुनराहारयन्तीत्यादिव्यपदेशविषयत्वादिति, तथाऽल्पशरीरा अल्प|तरान् पुद्गलानाहारयन्ति उच्छृसन्ति च अल्पशरीरत्वादेव, यत्पुनस्तेषां कादाचित्कत्वमाहारोच्छ्रासयोस्तन्महाशरीराहारोच्छा| सान्तरालापेक्षया बहुतमान्तरालत्वात् , तत्र हि अन्तराले ते नाहारादि कुर्वन्ति तदन्यत्र कुर्वन्तीत्येवं विवक्षणादिति, महाशरीराणामप्याहारोच्छासयोरन्तरालमस्ति किन्तु तदल्पमित्यविवक्षणादेवाभीक्ष्णमित्युक्तं, सिद्धं च महाशरीराण १ आहारादिषु समाः कर्मणि वर्णे तथैव लेश्यायाम् । वेदनायां क्रियायामायुरुपपत्तिचतुर्भङ्गी ॥१॥ व्या०८ Jain Education For Personal & Private Use Only jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy