________________
5454545555
'खहयरे'त्यादि, 'जोणीसंगहे'त्ति योनिः-उत्पत्तिहेतु वस्य तया सङ्ग्रहः-अनेकेषामेकशब्दाभिलाप्यत्वं योनिसङ्ग्रहः, 'अंडय'त्ति अण्डाजायन्ते अण्डजाः-हंसादयः, 'पोयय'त्ति पोतवद्-वस्त्रवजरायुवर्जिततया शुद्धदेहा योनिविशेषाजाताः पोतादिव वा-बोहित्थाज्जाताः पोता इव वा-वस्त्रसंमार्जिता इव जाताः पोतजाः-वल्गुल्यादयः 'संमुच्छिम'त्ति संमूर्छनयोनिविशेषधर्मेण निवृत्ताः संमूच्छिमाः-हिकादयः। एवं जहा जीवाभिगमें'त्ति एवं च तत्रैतत्सूत्रम्-'अंडया तिविहा | पन्नत्ता, तंजहा-इत्थी पुरिसा नपुंसया, एवं पोययावि, तत्थ णं जे ते संमुच्छिमा ते सबे नपुंसगा'इत्यादि, एतदन्तसूत्रं त्वेवम्-'अत्थि णं भंते ! विमाणाई विजयाई जयंताई वैजयंताई अपराजियाई १, हंता अत्थि, ते णं भंते ! विमाणा| केमहालया पन्नत्ता ?, गोयमा ! जावइयं च णं सूरिए उदेइ जावइयं च णं सूरिए अत्थमेइ यावताऽन्तरेणेत्यर्थः एवंरूवाई नव उवासंतराई अत्थेगइयस्स देवस्स एगे विक्कमे सिया से णं देवे ताए उक्किट्ठाए तुरियाए जाव दिवाए देवगईए वीईवयमाणे २ जाव एगाहं वा दुयाहं वा उक्कोसेणं छम्मासे वीईवएज्ज'त्ति, शेषं तु लिखितमेवास्ते, तदेव च पर्यन्तसूत्रतया यावत्करणेन दर्शितमिति । वाचनान्तरे विदं दृश्यते-जोणिसंगहलेसा दिट्ठी णाणे य जोग उवओगे । उववायठिइसमुग्घायचवणजाईकुलविहीओ॥१॥ तत्र योनिसङ्ग्रहो दर्शित एव, लेश्यादीनि त्वर्थतो दयन्ते-एषां लेश्याः षडू दृष्टयस्तिस्रःज्ञानानि त्रीणि | आद्यानि भजनया अज्ञानानि तु त्रीणि भजनयैव योगास्त्रयः उपयोगी द्वौ उपपातःसामान्यतश्चतसृभ्योऽपि गतिभ्यः स्थितिरन्तमुहूर्त्तादिका पल्योपमासङ्ख्येयभागपर्यवसाना समुद्घाताः केवल्याहारकवर्जाः पञ्च तथा च्युत्वा ते गतिचतुष्टयेऽपि यान्ति तथैषां जातौ द्वादश कुलकोटीलक्षाभवन्तीति ( जीवा० सू०९६-९७-९८-९९)॥सप्तमशते पञ्चम उद्देशकः संपूर्ण ७-५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org