________________
कारास्तु विघ्नविनायक
तत्र च सकलकल्याणकाराकान्तिकत्वादना
*
*
*
व्याख्या- इति । इह व्याख्यातारः शास्त्रव्याख्यानारम्भे फलयोगमङ्गलसमुदायार्थादीनि द्वाराणि वर्णयन्ति,तानि चेह व्याख्यायां १ शतके
प्रज्ञप्तिः विशेषावश्यकादिभ्योऽवसेयानि, शास्त्रकारास्तु विघ्नविनायकोपशमननिमित्तं विनेयजनप्रवर्तनाय च (मङ्गलं ) मालाअभयदेवी
दीनि शिष्टजनसमयसमाचरणाय वा मङ्गलाभिधेयप्रयोजनसम्बन्धानुदाहरन्ति, तत्र च सकलकल्याणकारणतयाऽधिकृतशास्त्रस्य या वृत्तिः१ श्रेयोभतत्वेन विघ्नः संभवतीति तदुपशमनाय मङ्गलान्तरव्यपोहेन भावमङ्गलमुपादेयं, मङ्गलान्तरस्यानैकान्तिकत्वादना॥२॥
त्यन्तिकत्वाच्च, भावमङ्गलस्य तु तद्विपरीततयाऽभिलषितार्थसाधनसमर्थत्वेन पूज्यत्वात् , आह-"कि पुण तमणेगतियमच्चंतं च ण जओऽभिहाणाई । तबिवरीयं भावे तेण विसेसेण तं पुजं ॥१॥" भावमङ्गलस्य च तपःप्रभृतिभेदभिन्नत्वेनानेकविधत्वेऽपि परमेष्ठिपश्चकनमस्काररूपं विशेषेणोपादेयं, परमेष्ठिनां मङ्गलत्वलोकोत्तमत्वशरण्यत्वाभिधानात् , || | आह च-"चत्तारि मंगल" मित्यादि, तन्नमस्कारस्य च सर्वपापप्रणाशकत्वेन सर्वविघ्नोपशमहेतुत्वात्, आह च-"एष पश्चनमस्कारः, सर्वपापप्रणाशनः। मङ्गलानां च सर्वेषां, प्रथमं भवति मङ्गलम् ॥१॥” अत एवायं समस्तश्रुतस्कन्धानामादावुपादीयते, अत एव चायं तेषामभ्यन्तरतयाऽभिधीयते, यदाह-“सो सबसुयक्खंधऽन्भंतरभूओ"त्ति, अतः शास्त्रस्यादावेव परमेष्ठिपञ्चकनमस्कारमुपदर्शयन्नाह१ विघ्नविनायकोपशमस्य नियमेन भावाभावात् । २ परमप्रकर्षवद्विघ्नविनायकोपशमाभावात् । ३ एकान्तिकात्यन्तिकविघ्नोपशमस्य ।
R ॥२॥ & किं पुनः !, तदभिधानादि यतोऽनैकान्तिकं नात्यन्तिकं च । तद्विपरीतं भावे-तेन विशेषेण तत्पूज्यम् ॥१॥ ५ विघ्नविद्रावकाश्चत्वारः।
६ चत्वारो मङ्गलं । ७ स सर्वश्रुतस्कन्धाभ्यन्तरभूतः ।
*
*
**
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org