________________
'कतिविहे ण'मित्यादि, मूलगुणपच्चक्खाणे य'त्ति चारित्रकल्पवृक्षस्य मूलकल्पा गुणाः-प्राणातिपातविरमणादयो मूलगुणास्तद्रूपं प्रत्याख्यान-निवृत्तिर्मूलगुणविषयं वा प्रत्याख्यानं-अभ्युपगमो मूलगुणप्रत्याख्यानम् 'उत्तरगुणपञ्चक्खाणे
य'त्ति मूलगुणापेक्षयोत्तरभूता गुणा वृक्षस्य शाखा इवोत्तरगुणास्तेषु प्रत्याख्यानमुत्तरगुणप्रत्याख्यानं, 'सवमूलगुणे'त्यादि, ४ सर्वथा मूलगुणप्रत्याख्यानं सर्वमूलगुणप्रत्याख्यानं देशतो मूलगुणप्रत्याख्यानं देशमूलगुणप्रत्याख्यानं, तत्र सर्वमूलगुणप्रत्याद ख्यानं सर्वविरतानां, देशमूलगुणप्रत्याख्यानं तु देशविरतानाम् ॥ 'अणागय'गाहा, अनागतकरणादनागतं, पर्युषणा
दावाचार्यादिवैयावृत्त्यकरणेनान्तरायसद्भावादारत एव तत्तपःकरणमित्यर्थः, आह च-"हो ही पज्जोसवणा मम य तया अंतराइयं होजा । गुरुवेयावच्चेणं १ तवस्सि २ गेलण्णयाए वा ३ ॥१॥ सो दाइ तवोकम्म पडिवज्जइ तं अणागए काले। एयं पच्चक्खाणं अणागय होइ नायचं ॥२॥" इति, एवमतिक्रान्तकरणादतिक्रान्तं, भावना तु प्राग्वत्, उक्त च-"पंजोसवणाइ तवं जो खलु न करेइ कारणजाए । गुरुवेयावच्चेणं १ तवस्सि २ गेलण्णयाए वा ॥१॥ सो दाइ तवोकम्म पडिवज्जइ तं अइच्छिए काले। एयं पच्चक्खाणं अतिकंत होइ नायचं ॥२॥"ति, कोटीसहितमिति-मीलितप्रत्याख्यानद्वयकोटि
१ भविष्यति पर्युषणा मम च तदाऽन्तरायो भविष्यति । गुरुवैयावृत्येन तपखिवै० ग्लानतया वा ॥ १॥ तदिदानीं तपःकर्म प्रतिपद्ये तदनागते काले । एतत् प्रत्याख्यानं अनागतं भवति ज्ञातव्यं ॥२॥ २ पर्युषणायां तपो य एव न अका कारणजाते । गुरुवैयावृत्येन तपस्विवै० ग्लानतया वा ॥१॥ तदिदानी तपःकर्म प्रतिपद्ये तदतिक्रान्ते काले । एतत् प्रत्याख्यानमतिक्रान्तं भवति ज्ञातव्यं ॥२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org