________________
Jain Education
र्थः, स्पर्द्धा वाऽऽहूतं तन्निषेधादनाहूतो, दायकेनास्पर्द्धया दीयमानमित्यर्थः अनेन भावतोऽपरिणताभिधान एषणादो पनि षेध उक्तोऽतस्तम् 'अक्रीतकृतं क्रयेण साधुदेयं न कृतम्, अनुद्दिष्टम् - अनौदेशिकं, 'नवकोडीपरिसुद्ध' ति इह कोटयो विभागास्ताश्चेमा ः- बीजादिकं जीवं न हन्ति न घातयति घ्नन्तं नानुमन्यते ३, एवं न पचति ३ न क्रीणाति ३ इत्येवंरूपाः, 'दसदोस विप्यमुकं ति दोषाः - शङ्कितम्रक्षितादयः 'उग्गमुपायणेसणासुपरिसुद्धं ति उद्गमश्च-आधाक| म्र्मादिः षोडशविधः उत्पादना च धात्रीदूत्यादिका षोडशविधैव उद्गमोत्पादने एतद्विषया या एषणा - पिण्डविशुद्धिस्तया सुष्ठु परिशुद्धो यः स उद्गमोत्पादनैषणासु परिशुद्धोऽत स्तम्, अनेन चोक्तानुक्तसङ्ग्रहः कृतः, वीताङ्गारादीनि क्रियाविशेषणान्यपि भवन्ति, प्रायोऽनेन च प्रासैषणाविशुद्धिरुक्ता, 'असुरसुरं'ति अनुकरणशब्दोऽयम्, एवमचवचवमित्यपि, 'अदुयं' ति अशीघ्रम् 'अविलंबियं'ति नातिमन्थरं 'अपरिसाडिं'ति अनवयवोज्झनम् 'अक्खोवंजणवणाणुलेवणभूयं ति अक्षोपाञ्जनं च - शकटधूर्खक्षणं व्रणानुलेपनं च-क्षतस्योषधेन विलेपनं अक्षोपाञ्जनत्रणानुलेपने ते इव विवक्षितार्थसिद्धिरशनादिनिरभिष्वङ्गतासाधर्म्याद्यः सोऽक्षोपाञ्जनत्रणानुलेपनभूतोऽतस्तं, क्रियाविशेषणं वा, 'संजमजायामायावत्तियं' ति संयमयात्रा - संयमानुपालनं सैव मात्रा-आलम्बनसमूहांशः संयमयात्रामात्रा तदर्थं वृत्तिः - प्रवृत्तिर्यत्राहारे स संयमयात्रामात्रावृत्तिकोऽतस्तं संयमयात्रामात्रावृत्तिकं वा यथा भवति संयमयात्रामात्रा प्रत्ययो यत्र स तथाऽतस्तं संयमयात्रामा - त्राप्रत्ययं वा यथा भवति एतदेव वाक्यान्तरेणाह - 'संयमभारवहणट्टयाए 'त्ति संयम एव भारस्तस्य वहनं - पालनं स एवार्थः संयमभारवहनार्थस्तद्भावस्तत्ता तस्यै, 'बिलमिव पन्नगभूएणं अप्पाणेणं' ति बिले इव- रन्ध्रे इव ' पन्नगभूतेन'
ational
For Personal & Private Use Only
2016
www.jainelibrary.org