________________
|
| जीवावगाहाभावप्रसङ्गात्, तमस्कायस्य च स्तिबुकाकाराप्कायिकजीवात्मकत्वात् बाहल्यमानस्य च प्रतिपादयिष्यमाणत्वादिति, 'इत्थ णं'ति प्रज्ञापकालेख्यलिखितस्यारुणोदसमुद्रादेरधिकरणतोपदर्शनार्थमुक्तत्वात्, 'अहे' इत्यादि, अधःअधस्तान्मलकमूलसंस्थितः - शरावबुभसंस्थानः, समजलान्तस्योपरि सप्तदश योजनशतान्येकविंशत्यधिकानि यावद्वलयसं| स्थानत्वात्, स्थापना च- । 'केवइयं विक्खंभेणं' ति विस्तारेण क्वचिद् 'आयामविक्खंभेणं'ति दृश्यते, तत्र चायाम| उच्चत्वमिति । 'संखेज्जवित्थडे' इत्यादि, सङ्ख्यातयोजनविस्तृतः, आदित आरभ्योर्द्ध सङ्ख्येययोजनानि यावत्ततोऽसङ्ख्या| तयोजनविस्तृत उपरि तस्य विस्तारगामित्वेनोक्तत्वात्, 'असंखेज्जाहूं जोयणसहस्साइं परिक्खेवेणं' ति सङ्ख्यातयोज - | नविस्तृतत्वेऽपि तमस्कायस्यासङ्ख्याततमद्वीपपरिक्षेपतो बृहत्तरत्वात्परिक्षेपस्यासङ्ख्यातयोजन सहस्रप्रमाणत्वम्, आन्तरबहिः | परिक्षेपविभागस्तु नोक्तः, उभयस्याप्यसङ्ख्याततया तुल्यत्वादिति । 'देवे ण' मित्यादि, अथ किंपर्यन्तमिदं देवस्य महद्धर्ज्या| दिकं विशेषणम् ? इत्याह- 'जाव इणामेवेत्यादि, इह यावच्छन्द ऐदम्पर्यार्थः, यतो देवस्य महद्धर्ज्यादिविशेषणानि गम| नसामर्थ्यप्रकर्षप्रतिपादनाभिप्रायेणैव प्रतिपादितानि 'इणामेवत्तिकहु' इदं गमनमेवम् - अतिशीघ्रत्वावेदकचप्पुटिकारूपहस्तव्यापारोपदर्शनपरम्, अनुस्वाराश्रवणं च प्राकृतत्वात् द्विर्वचनं च शीघ्रत्वातिशयोपदर्शन परमितिः- उपदर्शनार्थः 'कृत्वा' विधायेति 'केवलकप्पं ति केवलज्ञानकल्पं परिपूर्णमित्यर्थः, वृद्धव्याख्या तु- केवलः - संपूर्णः कल्पत इति कल्पःस्वकार्यकरणसमर्थो वस्तुरूप इतियावत्, केवलश्चासौ कल्पश्चेति केवलकल्पस्तं 'तिहिं अच्छरानिवाएहिं 'ति तिसृभिचप्पुटिकाभिरित्यर्थः 'तिसत्तखुत्तो'त्ति त्रिगुणाः सप्त त्रिसप्त त्रिसप्तवारांस्त्रिसप्तकृत्व एकविंशतिवारानित्यर्थः 'हवं'ति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org