SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥२६५॥ | शेषेषु भङ्गकत्रयं, बहूनां तेषु प्रतिपन्नानां तथैौदारिकवैकियत्यागेनौदारिकं वैक्रियं च प्रतिपद्यमानानामेकादीनां लाभात्, | इहौदारिकदण्डकयोर्नारका देवाश्च न वाच्याः, वैक्रियदण्डकयोस्तु पृथिव्यप्तेजोवनस्पतिविकलेन्द्रिया न वाच्याः, | यश्च वैक्रियदण्डके एकेन्द्रियपदे तृतीयभङ्गोऽभिधीयते स वायूनामसङ्ख्यातानां प्रतिसमयं वैक्रियकरणमाश्रित्य तथा यद्यपि पञ्चेन्द्रियतिर्यञ्चो मनुष्याश्च वैक्रियलब्धिमन्तोऽल्पे तथाऽपि भङ्गकत्रयवचनसामर्थ्याद् बहूनां वैक्रियावस्थानस - म्भवः, तथैकादीनां तत्प्रतिपद्यमानता चावसेया, ' आहारगे'त्यादि, आहारकशरीरे जीवमनुष्ययोः षड् भङ्गकाः पूर्वोक्ता एव, आहारकशरीरिणामल्पत्वात् शेषजीवानां तु तन्न संभवतीति, 'तेयगे' त्यादि, तैजसकार्मणशरीरे समाश्रित्य जीवादयस्तथा वाच्या यथौधिकास्त एव, तत्र च जीवाः सप्रदेशा एव वाच्याः, अनादित्वात्तैजसादिसंयोगस्य, नारकादयस्तु त्रिभङ्गाः, एकेन्द्रियास्तु तृतीयभङ्गाः, एतेषु च शरीरादिदण्डकेषु सिद्धपदं नाध्येयमिति, 'असरी रे' त्यादि अशरीरेषु जीवादिषु सप्रदेशतादित्वेन वक्तव्येषु जीवसिद्धपदयोः पूर्वोक्ता त्रिभङ्गी वाच्या, अन्यत्राशरीरत्वस्याभावा| दिति । 'आहारपजत्तीए' इत्यादि, इह च जीवपदे पृथिव्यादिपदेषु च बहूनामाहारादिपर्याप्तीः प्रतिपन्नानां तदपर्या| तित्यागेना हारपर्यायादिभिः पर्याप्तिभावं गच्छतां च बहूनामेव लाभात्सप्रदेशाश्चाप्रदेशाश्चेत्येक एव भङ्गः, शेषेषु तु त्रयो भङ्गा इति, 'भासामणे'त्यादि, इह भाषामनसोः पर्याप्तिर्भाषामनः पर्याप्तिः, भाषामनः पर्याप्योस्तु बहुश्रुताभिमतेन | केनापि कारणेनैकत्वं विवक्षितं, ततश्च तया पर्याप्तका यथा सञ्ज्ञिनस्तथा सप्रदेशादितया वाच्याः, सर्वपदेषु भङ्गकत्रय| मित्यर्थः, पञ्चेन्द्रियपदान्येव चेह वाच्यानि, पर्याप्तीनां चेदं स्वरूपमाहुः- येन करणेन भुक्तमाहारं खलं रसं च कर्त्तुं समर्थो Jain Education International For Personal & Private Use Only ६ शतके उद्देशः ४ नारकादीनां सप्रदेश त्वादिः सू २३९ ॥२६५॥ www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy