SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ 'सागारे'त्यादि साकारोपयुक्तेष्वनाकारोपयुक्तेषु च नारकादिषुत्रयो भङ्गाः, जीवपदे पृथिव्यादिपदेषु च सप्रदेशाश्चाप्रदेशाश्चे-| त्येक एव, तत्र चान्यतरोपयोगादन्यतरगमने प्रथमेतरसमयेष्वप्रदेशत्वसप्रेदशत्वे भावनीये, सिद्धानां त्वेकसमयोपयोगित्वेऽपि 9 साकारस्येतरस्य चोपयोगस्यासकृत्प्राप्त्या सप्रदेशत्वं सकृत्प्राप्त्या चाप्रदेशत्वमवसेयम् ,एवं चासकृदवाप्तसाकारोपयोगान् बहू नाश्रित्य सप्रदेशा इत्येको भङ्गः, तानेव सकृदवाप्तसाकारोपयोगं चैकमाश्रित्य द्वितीयः, तथा तानेवसकृदवाप्तसाकारोपयोगांश्च |बहूनधिकृत्य तृतीयः, अनाकारोपयोगे त्वसकृत्प्राप्तानाकारोपयोगानाश्रित्य प्रथमः, तानेव सकृत्प्राप्तानाकारोपयोगं चैकमाश्रित्य द्वितीयः,उभयेषामप्यनेकत्वे तृतीय इति।'सवेयगा जहा सकसाईत्ति सवेदानामपि जीवादिपदेषु भङ्गकत्रयभावात् , | एकेन्द्रियेषु चैकभङ्गसद्भावात् , इह च वेदप्रतिपन्नान् बहून् श्रेणिभ्रंशे च वेदं प्रतिपद्यमानकादीनपेक्ष्य भङ्गकत्रयं भावनीयम् , 'इत्थीवेयगे'त्यादि, इह वेदावेदान्तरसङ्क्रान्तौ प्रथमे समयेऽप्रदेशत्वमितरेषु च सप्रदेशत्वमवगम्य भङ्गकत्रयं पूर्ववद्योज्यं नपुंसकवेददण्डकयोस्त्वेकेन्द्रियेष्वेको भङ्गः सप्रदेशाश्चाप्रदेशाश्चेत्येवंरूपः प्रागुक्तयुक्तरेवेति, स्त्रीदण्डकपुरुषदण्डकेषु देवपञ्चेन्द्रियतिर्यग्मनुष्यपदान्येव, नपुंसकदण्डकयोस्तु देववर्जानि वाच्यानि, सिद्धपदं च सर्वेष्वपि न | |वाच्यमिति 'अवेयगा जहा अकसाइ'त्ति जीवमनुष्यसिद्धपदेषु भङ्गकत्रयमकपायिवद्वाच्यमित्यर्थः 'ससरीरी जहा ओहिओ'त्ति औधिकदण्डकवत्सशरीरिदण्डकयोर्जीवपदे सप्रदेशतैव वाच्याऽनादित्वात्सशरीरत्वस्य,नारकादिषु तु बहुत्वे | भङ्गकत्रयमेकेन्द्रियेषु तृतीयभङ्ग इति, 'ओरालियवेउब्वियसरीराणं जीवेगिंदियवज्जो तियभंगो'त्ति औदारिकादिशरीरिसत्त्वेषु जीवपदे एकेन्द्रियपदेषु च बहुत्वे तृतीयभङ्ग एव, बहूनां प्रतिपन्नानां प्रतिपद्यमानानां चानुक्षणं लाभात्, RECECRECR55G Jain Education Interna oral For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy