SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ द्यमानाश्च लभ्यन्त इति सप्रदेशानामप्रदेशानां चैकत्व बहुत्वसम्भव इति एतदेवाह - 'तेउलेसाए' इत्यादि, इह नारक| तेजोवायुविकलेन्द्रिय सिद्धपदानि न वाच्यानि, तेजोलेश्याया अभावादिति, पद्मलेश्याशुक्लेश्ययोर्द्वितीयदण्ड के जीवादिषु पदेषु त एव त्रयो भङ्गकास्तदेवाह - 'पम्हले से' त्यादि, इह च पञ्चेन्द्रिय तिर्यग्मनुष्यवैमानिकपदान्येव वाच्यानि, अन्येष्वनयोरभावादिति, अलेश्यदण्डकयोर्जीवमनुष्यसिद्धपदान्येवोच्यन्ते, अन्येषामलेश्यत्वस्यासम्भवात् तत्र व जीवसिद्धयोर्भङ्गकत्रयं तदेव, मनुष्येषु तु षड् भङ्गाः, अलेश्यतां प्रतिपन्नानां प्रतिपद्यमानानां चैकादीनां मनुष्याणां | सम्भवेन सप्रदेशत्वेऽप्रदेशत्वे चैकत्वबहुत्वसम्भवादिति, इदमेवाह - 'अलेसी हिं' इत्यादि । सम्यग्दृष्टिदण्डकयोः सम्यग्दर्शन| प्रतिपत्तिप्रथमसमयेऽप्रदेशत्वं द्वितीयादिषु तु सप्रदेशत्वं तत्र द्वितीयदण्डके जीवादिपदेषु त्रयो भङ्गाः, तथैव विकले न्द्रियेषु तु षड् यतस्तेषु सासादनसम्यग्दृष्टय एकादयः पूर्वोत्पन्ना उत्पद्यमानाश्च लभ्यन्तेऽतः सप्रदेशत्वाप्रदेशत्वयोरेकत्वबहुत्वसम्भव इति एतदेवाह - ' सम्मदिट्ठीही' त्यादि, इहैकेन्द्रियपदानि न वाच्यानि तेषु सम्यग्दर्शनाभावादिति, 'मिच्छद्दिहीहिं' इत्यादि, मिथ्यादृष्टिद्वितीयदण्डके जीवादिपदेषु तु त्रयो भङ्गाः - मिथ्यात्वं प्रतिपन्ना बहवः सम्यक्त्वभ्रंशे तत्प्रतिपद्यमानाश्चैकादयः सम्भवन्तीति कृत्वा, एकेन्द्रियपदेषु पुनः सप्रदेशाश्चाप्रदेशाश्चेत्येक एव तेष्ववस्थितानामुत्पद्यमानानां च बहूनामेव भावादिति, इह च सिद्धा न वाच्याः, तेषां मिथ्यात्वाभावादिति, सम्यग्मिथ्या दृष्टिबहुत्वदण्डके 'सम्मामिच्छदिट्ठीहिं छन्भंगा' अयमर्थः - सम्यग्मिथ्यादृष्टित्वं प्रतिपन्नकाः प्रतिपद्यमानाश्चैकादयोऽपि लभ्यन्त इत्यतस्तेषु षड् भङ्गा भवन्तीति, इह चैकेन्द्रियविकलेन्द्रियसिद्धपदानि न वाच्यान्यसम्भवादिति । 'संजए हिं' इत्यादि, 'संय Jain Education Intonal For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy